पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति । तत्रापि P परिमलोपेता । “बोध्यमिश्रमिदं बोध्याद् भेदे वां शक्यभासनम् | ज्ञानस्मृत्यादि पोध्ये किं प्रतिविम्वं न भण्यते || इति समान एव न्यायः । तत्र च वेत्तरि वित्यात्मनि वेद्यस्य प्रतिबि म्बनं, वेद्यात्मनि तु वित्तेरिति । सर्वथा तस्यैवं स्वातन्त्र्यसंरम्भावीनो वि. श्वविक्षोभः । एवं सांख्यादिप्रतिबिम्बवादवैलक्षण्यमप्यूह्यम् । इति विव- र्तादिव्यतिरेकेणास्मदुपक्षिप्तः प्रतिबिम्बपक्ष एवं प्रौढिमाढौकते । य- दाहुः "अतः प्रपञ्चस्य सृषात्ववादी कार्यत्ववादी प्रतिभेदवादी | असत्यवादी च परेश! शम्भो ! तव स्थितिं नेषदपि स्पृशन्ति ।।" इति । प्रतिबिम्वत्वित्यनेनैतदासूत्र्यते – यद् दर्पण इव वदनादि किं स्वात्मनि विश्वं प्रतिफलतीति दृष्टान्तदृष्टया विप्रतिपन्नो जनः प्रतिसमाँ- घीयत इति । स्थूलोपदेशावधीरणेन “स्वस्यैवं स्फुरणं मुख्यं विश्वस्मिन्नधिरोप्यते। ननु नौकाधिरूढस्य चलतीवापगातटम् ||" इति स्थित्या स्वात्मनि निष्ठं विश्वप्रतिविम्बनाक्रियावैदग्ध्यं मुख्यं स्फटिक- मुकुरादावल्पनैर्मल्येऽपि वस्तुनि सादृश्येनोपचर्यते । अन्यथा हंस ( नि ? ति हिम) कर इत्यादिसाधारणस्योपमानार्थस्य विप्रत्ययस्य वैयर्थ्यप्रसङ्ग इति । यद्यपि प्रतिबिम्बतीत्याद्यौपम्यव्यतिरेकेणाप्यभियुक्ताः प्रयुञ्जते, तथापि तत्सौशव्यनिष्कर्षावस्थायामुक्तार्थावश्यम्भावः । इति गुरुपदपरिचर्या तात्पर्यधनो महेश्वरानन्दः । प्रतिबिम्बवादसम्पत्सौभाग्यं स्वहृदयार्थमाचख्यौ || अथ च सर्वोऽयमुपायप्रपञ्चस्तत्तत्परामर्श कक्ष्याविशेषारुरुक्षुजनापेक्षया पर्यालोचितः । पार्यन्तिक्यां पुनरारूढजनाधिरूढायां स्वस्वभावैक- १. 'या' ख. ग. पाठ:. २. 'नि(किं.वि), ३. 'माधित', ४. 'व चस्फु' ग. पाठः, ५. 'निकारक' ख. पाठः•