पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता | यत् किमपि भावरूपमभावरूपं वा वस्तु यस्मिन् कस्मिविद् वर्तमाने भविष्यदादौ वा काले तथा पुरोवर्तिन्यनासने वा देशे येन केनापि स- भागात्मनी सविभागस्वभावेन वा वपुषा विद्यते वा नवेति । नेति ताव- न शक्यते वक्तुन् | शून्यत्वप्रसङ्गात् । प्रपञ्चस्य शून्यत्वपक्षश्च पूर्वमेवा- विक्षिप्तः । तद् यत्कञ्चिद्वस्तु विद्यत एवेति वक्तव्यम् । तदा च त त्स्वभावतयायमात्मा परिस्फुरतीति कथमस्थैर्यमस्योच्यते । अयं भावः आत्मनो विश्वाकरवीकारे विश्ववर्तिनां भावानां क्षणभङ्गाभ्युपगमेऽपि योऽयं क्षणभङ्गो नाम कश्चिदर्थः तस्य तावदनपह्नव एवेति तावन्मात्रे- णापि तन्मयस्यात्मनः स्थैर्यमव्याकुलम् | किमुत विश्वस्यैव स्थैर्ये समर्थ्य - माने इति । किन्च अनुभवत द्विकल्पस्मरणलक्षणाने कसंविदनुसन्धानसा- ध्या हि लोकयात्रा | स्तम्भं पश्य कुम्ममानय इत्यादौ तत्तच्छन्दार्थसङ्केता- नुभूत्यनुस्मरणादेरवश्यम्भावात् । यदुक्तमपोहवादे "शब्दस्य व्यवहारार्थमर्थचिन्तावतार्यते । तदर्थमेव सङ्केतस्तद्व्युत्पत्तिरपीप्यते ॥" पाठः, इति । संविदां च तासामन्योन्यानुसन्धानसामर्थ्य न सम्भवति, सर्वासां स्वयंप्रकाशत्वात् । तथाभावे चान्यपरामर्शानौचित्यात् । तदन्योन्यवा- तीनभिज्ञानामासामनुसन्धानक्षमः कश्चित् स्थैर्यशाली विद्यत इत्यनिवार्येयं मर्यादा । नित्यश्चात्मावगन्तव्यः कालक्रमविलङ्घनात् । सर्वलोकप्रसिद्धेयं तत्र युक्तिरुदीयते ॥ प्रसवानन्तरं वालो जनन्याः स्तनमापिबन् । स्तन्यादर्थक्रियां स्वस्य स्मरत्येवेति कल्प्यते || WASLEC स्मृतिश्चानुभवायत्ता स च नात्रास्ति जन्मनि । अतः प्राचीनया भाव्यमनुभूत्या कयाचन || १. 'ना विसभागात्मना स्व' क., 'विभावस्व' स्व. पाठ:. २. 'पीति त' ग. ३. 'न' क. पाठः. ४. 'धा' ग. पाठ: ५. १क्ष्य' क. पाठः.