१३८ महार्थमझरी "अध्वषट्कं च दीक्षा च शिवशास्त्रमिति स्मृतम् । दीक्षाध्वा निर्भयो भोगः शास्त्रे भैरवसंज्ञके || इति ॥ ५३ ॥ ननु जीवन्मुक्तिर्नामात्मनो जननमरणाधनुस्यूतस्य सर्वावस्थानि विशेषं स्वानन्दोत्सवानुभूतिः । सा च तस्य स्थैर्याभावपक्षे कथं सङ्गच्छे- तेत्याशङ्कच क्षणभङ्गमेव भनुमाह जं किं वि जेण केण वि रूवेण जहिं कहि वि किं त्थि । ता अप्पा णिच्चठिरो खणभङ्गो च्चेअ अट्ठेरो होइ ॥ ५४ ॥ यत् किमपि येन केनापि रूपेण यत्र कुत्रापि किं नास्ति । तस्मादात्मा नित्यस्थिरः क्षणभङ्ग एवास्थिरो भवति ॥ इति । इद्द खलु विश्वं प्रकाश्यं प्रकाशंकश्चात्मेत्यमिहितेयं मर्यादा। तत्र प्रकाशोपश्लेषमहिनैवास्य प्रकाश्यत्वम् । स चोपश्लेषः "तेनानेकस्यै रूपस्य श्लेष ऐकात्म्यमेव सः" इति सम्बन्धसिद्धिस्थित्या प्रकाश्यप्रकाशयोरैकात्म्यपर्यन्तमुज्जृम्भते । प्रकाशस्य चार्थधर्मत्वमात्राङ्गीकारे ग्राहकसव्यपेक्षं ग्राह्यग्रहणमित्येतद् व्याइन्येत । ततश्च सर्वं सर्वस्य प्रकाशेत, न कस्यचिद्वेत्युत्सन्नः स्याद् विश्वव्यवहारः । अतोऽर्थः प्रकाशत इत्यस्य प्रकाशकतामसावनुभवतीत्यर्थो भवति । यदुक्तमजडप्रमातृसिद्धिविमर्शिन्याम् – 'इदं मम ज्ञानमिति नाजसा ज्ञानप्रकाशः | अपितु जानाम्यहमिति ज्ञानस्यास्मदर्थविश्रान्त- तैवे'ति । तथात्वे चास्य प्रकाशान्तर्गतत्वमवश्यम्भावीति विश्वस्यै तत्प्रका- शेकस्यात्मनश्चैकात्म्यमवर्जनीयम् । एवमङ्गीकारे हि परमेश्वरस्यानन्यमुख- प्रेक्षित्वलक्षणं स्वातन्त्र्य मौचित्यमनुभवति, अन्यथा सजातीयेश्वरान्तरान- पेक्षत्वलक्षणमिति तत्र सङ्कोचकलङ्कस्पर्शः प्रसज्येत । तत्रैतत् प्रष्टव्यं --- १. 'शश्चा', ९. 'त्मैक्यविदिते' ख. पाठ:. 'मेयवगीयते', श्ले' ग. पाठ:. ४. 'स्य प्रका' क. पाठ: ५. 'शस्या' ख. पाठः
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१५६
दिखावट