पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता “यस्येच्छातः सतां देवि! जीवन्मुक्तिः क्षणाद् भवेत् । तस्याहं वच्मि दिव्यौघं जीवन्मुक्तिप्रवृद्धये ॥" इति । वृक्षोऽपि हि कुतश्चित् सुक्षेत्रादुनो बहुशाखश्च प्रवर्धमानः पुष्पं फलं च प्रसूते । तत्रापि पुष्पे सत्कार्यवादमङ्गया फलसद्भावः फलेऽप्य जहत्कारणरूपतया पुष्पानुषङ्ग इति पुष्पमपि फलं फलमपि पुष्पमित्येव विवेचकजनपयलोचनकार इति । अस्य च दुमत्वमागमप्रसिद्ध्योक्तम् । यथा च श्रीमत्स्तोत्रावल्यां “प्रार्थनाभूमिकातीतविचित्रफलदायकः । जयत्यपूर्ववृत्तान्तः शिवः सङ्कल्पपादपः ॥" इति । उक्तरूपं चैनं विमर्शमवीरयन् बाह्यद्वैतसिद्धान्तः पाशवशाख- शय्यामधिशेते । तथाहि - FORKING ‘‘अद्वैतवादनिर्वाहो वेदान्तेष्वपि विद्यते । तत्रात्मा कश्चिदुत्तीर्णः सच्चिदानन्दलक्षणः || एकः सत्यतया स्फूर्जन्निर्मलो निरइङ्क्रियः । अनादिनिधनः शान्तो विश्वोत्पत्तिविपत्तिभूः || संविन्मयन्वभावेन भावाभावदशोज्झितः । स्वयम्प्रकाशतां चिभ्रन्नित्यमुक्तो निरूपितः ।। समञ्जसमिदं सर्व किन्तु तस्यात्मनः प्रभोः । अवित्वपर्यायमकर्तृत्वं न युज्यते ॥ सा चास्य कर्तृताशक्तिः स्वभावानतिलङ्घिनी । जानातेश्च करोतेश्च साधारण्येन वर्तते || तत्क्रियापि भवेज्ज्ञानं ज्ञातुर्धर्मो यदुच्यते । एवं कर्तृस्वभावत्वात् तस्य ज्ञानमपि क्रिया ॥ औ-मुख्यमनयोरिच्छा विश्वमेतद्विजृम्भितम् । तस्माद् विमर्शो देवस्य स्वभावोऽस्माभिरुच्यते || 1. 'प्रवृद्धमा' ख. पाठः २. 'पुष्पानुपक्रम' ग. पाठः,