पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मदार्थमञ्जरी संविदद्वैतात्वाइसौभाग्येन ग्राह्यग्रहण कौतूहलोपलम्भज एवं स्वात्मवि- जृम्भावबोधसाधनप्रगल्भ इत्यपवर्गसंपत्स्वभावत्वेनायमनुभूयते । किञ्च स विमर्शाख्यः कल्पशाखी निष्कलक्कमहन्तेदन्ताविभागविच्छेदावच्छेदल- क्षणकलाकलङ्कशून्यं यत् सुखं स्वविवान्तिस्वभावः स्वहृदयाहादः, स एवोत्सवः. "शचीकुचतटे शक्रो नरके विलुठन् कृमिः । उभौ समसमाधानौ विचित्रो वासनाभ्रमः ॥” इत्यादिन्यायाद् (यद्) अन्यदनुभवितृजनविशेषहृदय सङ्कल्पमात्रोपकल्पितं सौख्यारोपणं, तद्युदासेन बहुभिः: श्रीशिवानन्द महाप्रकाश महेश्वरानन्दप्र भृतिभिर्योगीन्द्रैः संभूयसंवादेनोपभुज्यमानत्वात् ताहगुत्सव रूपमालोकं प्रत्यक्प्रकाशं च प्रसूते । अथच निष्कलमित्यत्र कलाशब्दः कलयति पारिमित्येन बहिः परिच्छिनत्तीति व्युत्पत्या मायाशक्तिर्वा, किञ्चित्कर्तृ- त्वोपोद्वलनोपलक्षिता पञ्चकञ्चुकी वा ब्राह्मचादीनां वर्गाधिष्ठात्रीणां सम- ष्टिर्वा, तदधिष्टेया मातृका वा, स्वात्मा पूर्ण ख्यातिलक्षणः (१) स्वस्य सङ्कोचो वेति बहुप्रकारं व्याख्येयः । एतदुक्तं भवति – विश्ववैचित्र्यविभ्रष्टृत्वस्व- भावः परमस्वातन्त्र्यशाली परमेश्वरोऽहमिति हृदयङ्गमीभावपर्यन्तमनु- शील्यमानः सर्वप्रपञ्चविकल्प परिस्फुरणक्रोडीकारविचक्षणश्चायं विमर्शः प्रतिपादितात्मरूपावबोधयोगिनां भोगमोक्षलक्षणं पुरुषार्थद्वितयमप्युपपा- दयति । तत्र च - (9 "तस्या भोक्त्र्याः स्वतन्त्राया भोग्यैकीकार एष यः । स एव भोगः सा मुक्तिः स एव परमं पदम् ||” इति श्रीप्रबोधपञ्चदशिकाप्रक्रियया भोगोऽपि मोक्षात्मा मोक्षोऽपि भोग- स्वभाव इत्यनयोरन्योन्यमेलकरूपा श्रीमदनुत्तरसंविदद्वैत सिद्धान्तैकसाध्या जीवन्मुक्तिरस्य फलम् । यदुक्तं श्रीमतदेवे - १. 'न्यानु' ख. पाठ: