पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी 5 च्छिन्नैश्वर्यशालित्व मीशितृत्वं विप्रवृतया सर्वसहुता वशित्वं, पूर्णा- इम्भावभावना यत्र कामावसायित्वमिति संविन्मयत्वौचित्येन परामृश्यते, तदानीमस्मद्रुक्तमुद्रापर्वानुप्रवेश इति न किञ्चिदासां क्षुल्लकीकरणं, प्र- योजनाभावात् । मन्त्रमुद्रादिवद् ध्यानहोमादयोऽन्येऽपि साधकव्यापाराः संविदद्वैतानुगुण्येन स्वयमूहनीयाः । यथा श्रीविज्ञानभैरवे-- “ध्यानं या निश्चला चिन्ता निराकारा निराश्रया | न तु ध्यानं शरीरादिमुखहस्तादिकल्पनंम् ।। महाशून्यालये वहौ भूताक्षविषयादिकम् । हूयते मनसा सार्धं स होमवेतनाखुचा ॥ " इति । कुळार्घ्यस्वीकरणं चान्तरहोमप्रायमेवेत्यवगन्तव्यम् । यदुक्तमस्म- त्परमगुरुभिः श्रीसुभगोदये - “पराहन्तामये संविदनौ संवेद्यतर्पण । इदन्तालक्षणं हेव्यं जुहुयादबहिर्मुखः || " इति । यच्चोक्तं मयैव महार्थोदये - “अथ हव्यमिदन्ताख्यं हावं हावं स्वचिन्मुखे । उल्लङ्घ्य मायामालिन्यं स्वैरमासीत मेरुवत् || " इत्यलमतिरहस्योन्मीलनप्रपञ्चेन ॥ ५१ ॥ इत्थं महता प्रपञ्चेनोपपादितस्य विमर्शस्वरूपस्य प्रयोजनमुपपाद- यितुमाह - हिअअट्ठाणपरूढो विमरिसकप्पद्दुमो महासाहो । पुष्फइ भोगसिरीए फळइ अ णिक्कळसुहोसवाळीअं ॥ ५२ ॥ हृदयस्थानमरूढो विमर्शकल्पद्रुमो महाशाखः । पुष्यति भोगश्रिया फलति च निष्कलसुखोत्सवालोकम् ॥ इति । हृदयं हि नाम विश्वप्रतिष्ठाभूमित्वादतिमहत् स्थानम् । यदुक्तमाचार्याभिनवगुप्तपादैः – “हृदयं हि नाम प्रतिष्ठास्थानमुच्यते " इति । यथा चोपनिषत् - १. 'तो' ग. पाठः २. 'ना' क. ग. पाठः. ३. 'चान्तहोम' ग. पाठः, ‘णम्' क. पाठः ५. 'द्र' ग. पाठः ६. 'ध्य क. ख. पाठ:.