पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता | प्रत्यणूकरणसामर्थ्यमाणमा गगनादिव्यापकत्वकौशलं महिमा | समुद्र- सलिलादावपि पद्धयां प्रयाणे तदस्पर्शो लघिमा यथाभिलषितपदा- र्थलाभः प्राप्तिः । संकल्पमात्रात् सर्वत्राप्रतिहतगतित्वं प्राकाम्यम् । सार्व- त्रिकं प्रभुत्वमीशितृत्वम् । इन्द्रियार्थोपभोगे खेच्छामात्राचीनहानोपादानवं वशित्वम् । स्वाभिलापमात्रात् सः स्वर्गनरकानुभूतिः यत्र कामाव- सायित्वमिति विवेकः | तासां च सावकजनहृदयहारित्वोत्कर्षलक्षणं यत् सौभाग्यं, तंदुपपादितवानन्दसंपदा क्षुलकीक्रियते क्षुद्रक्रियत इत्यक्षरार्थः । अयं भावः - करचरणाद्याकुचनावकुचनादिसडोचोलडवनेन निस्त- रङ्गसमुद्रावस्थानस्थानीया तत एवं स्वान्तविलीनफेनबुदबुदावेदादिप्राया- शेषबालानन्दपरिस्पन्दा स्वविश्रान्तिंचमत्कारापरपर्यायपरामर्शक्रियारूपा काचिदलौकिकानुभूतिरानन्दसंपद मुर्द रातीति व्युत्पत्त्या करङ्किण्याद्यन्य- मुद्राप्रपञ्चोदयविलय भूमिर्मुद्रात्वेनानुसन्धेवेति । यथा श्रीपश्चिने-- “सा सिद्धिः सर्वसिद्धीनां सिद्धित्वे परिकीर्तिता | ज्ञानं यकलित चैक मुद्रा चैका ग्रहात्मिका || द्वावेतौ यस्य जायेते सोऽन्वयी सिद्धैशासने ।” इति । आनन्दं प्रति परानन्दनिरानन्दमहानन्दानन्दविषयानन्दस्वभावा- शेषानन्दसामरस्यमुन्मीलयितुमुल्लासः श्रीरिति चोभयोपन्यासः । यथोक्तं श्रीस्तोत्रभट्टारके – “कौळाणवानन्दमयोमिरूपाम्” इति । यथा श्रीचिङ्ग- गनचन्द्रिकायां- "यत् परो निरुपसर्गतः परः स्वान्महानपि च केवलः शिवे ! | उत्तरश्च विषयात् स च त्वदानन्द उल्लससि तद्धनासि यत् ।। " इति । तत्र च ताः सिद्धयो यदा प्रकाशरूपतया सर्वपदार्थान्तर्भावसाम- र्थ्यमणिमा, तथैव व्यापकत्वं महिमा, भेदरूपगौरवव्युदासो लघिमा, स्वात्मविश्रान्तिलाभः प्राप्तिः, वेद्यविलासोपलालनं प्राकाम्यम्, अनव- १. 'य' ग. पाटः- ख. पाठ:. ४. 'द्धि', २. 'न्तिशरीरा च' ख. ग. पाठः ३. 'मुइँका चाय' क. 'यः' क. पाठ:. ६. 'पव्यु' ग. पाठः,