पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । "सर्वमन्यत् परित्यज्य चित्तमत्र निवेशयेत् । मुद्धातुशैलरत्नादिभवं लिङ्गं न पूजयेत् ॥ १" अर्चयेच्चिन्मयं लिङ्गं यत्र लीनं चराचरम् । इति । यथा च श्रीप्रभाकौले- "पश्य मोहस्य माहात्म्यं स्वहृदिस्थेऽपि शङ्करे । लिङ्गस्थाण्डिलवहथप्स वीक्षयन्ति यथाशिवम् ||" इति । अतश्च “स्त्रीपराङ्मुखमनाः किल कुषा पुष्पकेतुमदहन्महेश्वरः । त्वं तदपि ननु तस्य सैव धीः सत्यमम्ब ! सुभगाभिधीयसे ॥” इति श्रीकोमलवल्लीस्त वस्थित्या विश्वप्रकाशात् स्वहृदयप्रकाश स्यैवात्यन्त. लाध्यत्वात् स्वात्मरूपा सौभाग्यसंविन्मय्येव देवतेत्यत्र न किञ्चिद् वैम- त्यम् । यदुक्तं "स्वात्मैव देवता प्रोक्ता ललिता विश्वविग्रहा" इति । एतच्चास्मत्परमगुरुकर्तृके श्रीमहजुविमर्शिन्यादौ विमर्शनीयम् । एवं च परामर्शप्ररूढौ सत्यां तस्य देवतात्वेनोपपादितस्य भावस्य यो भावः स्फुरत्तापरपर्याया सत्ता, तया भाविताः स्वहृदयप्राकट्य पर्यन्तं रूषिता याः प्रतिमाः स्कन्दगणपतिवटुकाद्या कारवन्तो मृदुपलादिसन्निवेशविशेषाः, तास्तेषामर्चकानां पुत्रवित्तप्रमुखं तं तमभिवाञ्छितमर्थं प्रसुवते । यथोक्तं श्रीपूर्वे "बहिर्लिंङ्गस्य लिङ्गत्वमनेनाधिष्ठितं यतः । अतः प्रपूजयेदेतत् परमाद्वैतमाश्रितः ॥” इति । तथा सिद्धान्तेऽपि - “अन्तर्लिङ्गं दृढं बद्ध्वा बहिलिंङ्गं ततोऽचैयेत्” इति । एतदभिप्रेत्य हि श्रीमत्स्तोत्रावल्याम् - “अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणैः । नमो मह्यं शिवायेति पूजयन् स्यात् तृणान्यपि ॥” १२३ १. 'था' क. पाठः, १. 'दु' ग. पाठः, ३. 'णे क. पाढा.