पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ महार्थमझरी “स्वात्मानं हि विहाय चेतनममुं किं पूजयेयुर्जडम्" इति । यच्चोक्तं नयसंगतो "नास्ति नादात् परो मन्त्रो न देवः स्वात्मनः परः नानुसन्धेः परा पूजा नहि तृप्तेः परं फलम् || इति । यथा च गीताविष्यन्दे- 99 "उज्झित्वात्मसमाधानं ये ध्यायन्त्यन्यदेवतः । भिक्षन्ते भूरिवित्तास्ते भिक्षित्वापि बुभुक्षिताः ॥” इति । अर्थकत्वरूपेणोपाधिना प्रमातॄणां पृथक् पृथग् भेदप्रथामिमन्तृत्वाद् यो यस्येत्यादिनों भावानां बाहुल्योपपादनद्वारा देवतात्वमुन्मीलितम् । यदाहुः "यद् यद् रूपं कामयते तत् तद् देवतौरूपं भवति" इति । अत एव हि “रूप रूपं मध्वान् चोभवीती" ति बहुवृचा आचक्षते । मु. ख्यया तु वृत्त्या तत्तद्भावभेदस्य प्रकाशकात्म्यपारिशेष्यात् सर्वस्यापि प्रप- वस्य एक एव हृदयस्फुरणस्वभावो देवतात्वेनाराध्यः । न पुनः प्रतिमा- पुस्तकादिर्जड पदार्थ इति तात्पर्यार्थः । अनेन भावयोग इत्यत्र योगश- ब्दो व्याख्यातः । योगो हि तादृशी शक्तिः । यदुक्तं श्रीशचीमते- “योगस्त्वमसि देवेशि ! योगी चाहं सनातनः । योगेनेदं त्वया विश्वमाविष्टं शम्भुना मया ॥ " Se इति । श्रीभगवद्गीतास्वपि - “पश्य मे योगमैश्वरम्” इति । तत् 'णमि ऊण' इत्यादिवाक्योपक्रान्तो महाप्रकाश एव देवता, नान्यः कश्चित् । एतत्स्वातन्त्र्यसंरम्भाधीनस्वस्फुरणविजृम्भणो जडः प्रपञ्च इत्युक्तं भवति । तथा श्रीपूर्वे - , २. 'ना बाह्यानां' क. पाठः, ३. ता भ', १. 'ताम्' ग. पाठ:● 'रुपं मं' ग. पाठः, ६. 'घवा बोवतीति', . 'न्तौ' क. पाठ:● 9. ख.. पाठ..