पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी इत्युक्तम् । तत्र च मुख्यायाः स्वहृदयदेवतायाः सकाशादासां प्रतिमानां न किञ्चिलक्षण्यं, येन सिद्धरसविद्धधातुन्यायादत्र तद्भावापत्तिदा नोत्पद्यते । यथा च श्रीविरूपाक्षपञ्चाशिकायां Grzapus “या देवता यमर्थ करोति तेनार्थिनो दृढं तस्याम् । विधताहकारस्य क्षणेन सोऽर्थः समायाति ॥” इति । भावनायाश्च मुख्यवत् फलप्रदत्वमुक्तं श्रीचिगन चन्द्रिकायां-- "कल्पनापि न मृषाफलं शिवे यत् स्थितं गरुडभावनादिजम् " इति ॥ ४७ ॥ अथैवमुद्भावितस्य देवतावपुर्निष्कर्षस्य प्रतिपत्तृजनप्रतीतिसौकर्याय दृष्टान्तं कमप्युपदर्शयितुमाह - चित्तं ण ळिहह चित्तं चित्तअरो उवह ळिहइ तं चित्तं । ता भणह कुत्थ जोग्गा काउं दोण्णं वि देवदाबुद्धी ॥४८॥ चित्रं न लिखति चित्रं चित्रकरः पश्यत लिखति तच्चित्रम् | तद् भगत कुत्र योग्या कर्तु द्वयोरपि देवताबुद्धिः || इति । जडमजडं वा वस्तु देवतेति सन्दिहानो जन एवं प्रतिबोध- यितव्यः, यदुत आलेख्यार्पित वपुषं पुरुषमहिळाप्रभृतिमचेतनं भावं प्रति तज्जातीयस्यान्यस्य न कस्यचिदपि ताग्विलेखनक्रियायां सामर्थ्यमालो- क्यते । प्रत्युत तेंद्विजातीयस्य तच्छिल्पनिर्माण कौशलोत्कर्षशालिन श्चेतनस्यैव तत् संभवतीत्यविप्रतिपन्नेयं प्रक्रिया। उक्तमर्थ हृदयङ्गमीकर्तुं पश्यतेत्युक्तम् । चेतनाचेतनयोः सामर्थ्यमसामर्थ्य च स्पष्टतया प्रख्यापयितुं तद्वृत्तादिपरा- मर्शव्यतिरेकेण पुनः पुनश्चित्रशब्दप्रयोगः | तस्मादिति । यतोऽन्वयव्यति- रेकाभ्यां चेतनस्यैवोक्तक्रियाकर्तृत्वं न पुनस्तव्यतिरिक्तस्य कस्यचित्, ततो हेतोः । भणत परामृशत, तयोश्चित्रस्य चित्रकरस्य चोभयोर्मध्ये 'स' ख. पाठः २. 'छादिम' ग. पाठ: ३. 'खक्रि', ४. 'तत्तद्वि' क. पाठः, ५. 'णरूपकौ' ख. पाठः, ६. 'का' क. पाठ:.