पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी १२० तेषां 'चिन्मयस्वात्मपरमेश्वराराधनेन तदीयस्पन्दविलासात्मषट्त्रिंशत्तत्त्व- मयं जगत् पोषयेदित्यर्थः' इति श्रीशाम्भवदीपिकान्यायादन्तहर्होमात्मा विक्षेपलक्षणोऽर्थ एवेति । अन्वयस्तु तादृक्तर्पणमेतादृशं विक्षेपं भणाम इति भवति । तच्च तर्पणं मन्त्रोल्लेखविशुद्धम् । मन्त्रो हि वक्ष्यमाणस्व- भावः कश्चित् परामर्शविशेषः । तेन य उल्लेखः स्वात्मतादात्म्यानुप्रवेशलक्ष - णमुज्ज्वलीकरणं तेन संवित्स्वातन्त्र्यसंस्कारात्मना विशुद्धं सर्वपूर्ववासना- व्युदासोपरूढालौकिकानुभावोत्कर्षमिति यावत् । अत एव घेतत् पूर्ण पुण्यमित्युच्यते । सा हि पावनता याः परा कोटिः, यद्भेदकलङ्काशौचशा- लिभिः पशुभिः स्प्रटुमपि न पायेते, प्रत्युत “अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते” इति नीत्या निन्द्यते च यत्किलान्यदपवित्रमपि पवित्रयितुं प्रगल्भते, तस्य स्वतः पवित्रताय कः सन्देहः । यथा श्रीत्रिंशिकाशास्त्रे - “शिवसंख्याभिजप्तेन तोयेनाभ्युक्षयेत् ततः । पुष्पादिकं क्रमात् सर्व लिङ्गं वा स्थण्डिलं च वा ॥” इति । श्रीतन्त्रालोकेऽपि - “अर्घ्य पात्राम्बुविप्रुभिः स्पृष्टं सर्वं विशुध्यति । शिवार्ककरसंस्पर्शात् कान्या शुद्धिर्भविष्यति ॥” इति । ततश्च "यद्यथोपनतमेव पूर्णतामादधाति हृदयङ्गमत्वतः । तत् तथैव परमेशपूजने योग्यमन्यदिह नास्ति लक्षणम् ॥” इति श्री ज्ञानेन्दुकौमुदीन्यायादेतदेव पराहन्तायाः परमं प्रीणनं यदलि- पिशिताङ्गनायुपयोगः, यश्च जीवन्मोक्ष इत्याम्नायत इति तात्पर्यार्थः । यदुक्तं श्रीमहानयप्रकाशे - ● we

“प्रायो हि मैथुने मद्ये मांसे च परिदृश्यते । आसक्तिः सर्वजन्तूनां विशेषात् कस्यचित् क्वचित् ॥ १. 'लाप', २. 'या' ग. पाठः, ३. 'खा' क. पाठ: