परिमलोपेता । पुण्णाहन्ताएं मुहे वीसविअप्पङ्कुराण विक्वेवं । मन्तुळ्ळेहविसुद्धं पुण्णं कुळविन्दुतप्पणं भणिमो ॥ ४६॥ पूर्णाहन्ताया मुखे विश्वविकल्पाङ्कुराणां विशेषम् । मन्त्रोल्लेखविशुद्धं पूर्ण कुळविन्दुतर्पण भणामः || इति । कुळं हि नाम वेद्यवर्गोल्लासस्वभावतया भगवान भट्टारक एवेत्याख्यायते । तत्र तदीया ये विन्दवः कमौत् क्रममंशांशितया परिस्फु- रन्तः शक्तिपरिस्पन्दाः, तैः क्रियमाणं देवताप्रीणनमित्थं भणामः परा- मृशाम इति यावत् । बहुवचनमेवं विटणामलौकिकाहङ्कारोत्कर्षप्रख्या- पनाय । भणनप्रकारच ११९ “उत्तमः पुरुषोऽन्योऽस्ति युष्मच्छेषविशेषितः । त्वं महापुरुषस्त्वेको निश्शेषपुरुषाश्रयः ।।” इति श्रीमत्स्तोत्रावलिस्थित्या प्रमेयप्रपञ्चपदावच्छिन्नान् प्रमातॄनपि वेद्य- वर्गान्तभवनावस्थाप्य स्वयमशेषसङ्कोचोत्तीर्णमहमिति यत् तत्त्वं, यच्च “अहं प्राणो मनचाहमहङ्कारोऽप्यहं भतः । अहं बुद्धिरहं शक्तिरहं स भगवान् शिवः || किं वा बहुप्रलापेन जगत्यस्मिंश्चराचरे । योऽर्थः प्रमाणोपारूढः सोऽहं सर्वात्मकः स्थितः ॥” इति श्रीहंसमेदस्थित्या सर्वप्रपञ्चपरिस्फुरणाकारतया परामृश्यते, तस्ये या ' चैतन्यमात्मेत्युद्यमो भैरवः' इति च श्रीशिवसूत्रस्थित्या तादृक्स्वरूप- निष्कर्षैकमात्रफलतया तत्प्रत्ययेन प्रतिपाद्यमाना महास्फुरत्ता, तस्याः खात्मदेवतापर्यायाया यन्मुखं प्राणाद्यवष्टम्भद्वारा संवित्प्रसरणोपक्रमस्थानं स्वं शरीरं, तस्मिन्नधिकरणतया परामृश्यमाने 'न ह वा एवंविदि किंञ्चना- नन्नंम्' इत्युपनिषत्प्रक्रियया विश्ववर्तिनां सर्वेषामेव विकल्पानामङ्कुरतया कार्यवर्ग प्रति कारणभावेन सूक्ष्मतया समुन्मिपन्तो ये कलाविशेषाः, १. 'योला', २. 'माक्र', २. 'श' क., 'शिकया' ग. पाठः, ४. त्वम् अ' क. पाठ:. ५. 'त्र', ६. 'ति श्री' ग. पाठः ७. 'सरेणोप' क., 'करोप' ग. पाठ:. ८. 'न भावा' क. ग. पाठः. ९. 'न्दम्' ग. पाठः १०. 'षामपि वि' ख. ग. पाठः.
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१३७
दिखावट