पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी किञ्चैतत् स्वहृदयप्रतिष्ठासदत्वात् पृथिवी, तस्यैवान्तराप्यायकत्वादापः, प्राचीनवासनापाशप्लोषप्रगल्भतया तेज़ः, स्वसंवित्तत्त्व परिस्पन्दनप्रदायित्वेन वायुः, शुद्धचैतन्यमात्रपर्यवसायितया व्योमेति पृथिव्यादिभूतपञ्चकस- मष्टिस्वभावतया विश्वविलास एवेत्यवधार्यते । तत्संस्कारस्तदुपयोगश्चान- न्तरमासूत्रयिष्यते । एवं बाह्यद्रव्येषु स्वात्मतृप्त्यर्पणप्रवीणं द्रव्यविशेष प्रतिपाद्य तदङ्गत्वेनाङ्गीकार्याणां पुष्पादीनां स्वरूपमाह - पुष्पाणि स्वभावपोषका भावाः इति । स्वस्य यो भावः पूज्यदेवतास्वभावतया निरूपितश्चमत्कारः, तस्य तादृक्परामर्शप्रतिष्ठापनलक्षणपोषणप्रयोजनानि पुष्पाणि । स्वभावं पोषयन्तीति व्युत्पत्त्या पुष्पाणीति तात्पर्यार्थः । उप- लक्षणं चैतत् । ततश्च पुष्पशब्देन स्वभावपोषकाणां बाह्यांभ्यन्तराणां सर्वेषामपि द्रव्याणां स्वीकारः । यदुक्तं श्रीत्रिंशिकाशास्त्र विमर्शिन्यामाच- र्याभिनवगुप्तपादैः – “पुष्पैर्हृदयान्तःस्वरूप समर्पणादेव हृदयस्य पोषकै- र्बाद्याभ्यन्तरैः सर्वैद्रव्यैः” इति । गन्धो हि गुणः सर्वप्रपञ्चस्फुरत्तात्मक इत्याख्यायते । यदुक्तं मयैव श्रीपादुकोदये "स्वस्वकार्येषु सर्वेषां कारणानामवस्थितिः । अजहद्रुपतायोगादविनाशेन वर्तते ॥ हेतुहैतुकभावश्च शिवशक्त्यादिगोचरः । पारम्पर्यक्रमात् प्राप्तः सर्वो विश्राम्यति क्षितौ ।। अतो विश्वमयी पृथ्वी तस्या गन्धोऽपि तन्मयः । तक्राहकं च करणं विश्वस्य ग्राहकं भवेत् ||" Sur इति । तादृग्गन्धगुणानुप्राणनतया च पुष्पपदेन सर्वोपकरणस्वीकार इति सुष्षूक्तम् । तेथा श्रीत्रिंशिकाशास्त्रे “ततः सुगन्धिपुष्पैश्च यथाशक्ति समर्चयेत्” इति ॥ ४५ ॥ एवं लौकिकालौकिक साधारण्येनोपात्तेषु द्रव्येषु द्वितीयपक्षपरिगृहीतं सर्वेन्द्रियपक्षपातविषयं द्रव्यविशेषं पृथक्कृत्य संस्कारोपयोगाभ्यां परीक्षितु- माह - १. 'हि', २. 'य' ग. पाठः.