पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता | इति । अङ्गानां हि करचरणाद्यवयवात्मनां पृथक् पृथक् कार्यंत- यावभासमानानामेकेन केनचिच्छरीरानुप्रविष्टेनात्मना कारणभूतेन सर्ववि कल्पोत्रोटनयुक्त्या मर्शः परामर्शो भवन्नङ्गन्यास इत्युच्यते । तदेवमेतत् पर्यवस्थति – यत् करचरणायुपलक्षितस्य विकल्पविक्षोभप्रपञ्चस्य पूर्णा- हम्भावभावनास्वभावैया कयाचिदविकल्पतया विमर्शनमिति । यदुक्तं- मस्मत्परमगुरुमिः श्रीक्रमवासनायां - "कारणात्मपरामृष्टकार्यभूताङ्गुलिस्थितिम् । करोमि चिन्मयीं शुद्धि करयोः परिशोधनीम् || सर्वज्ञत्वादिशक्तीनां सतीनामात्मनि प्रभौ । उन्मज्जनं भावयामि पडनविधियोगतः ॥१ इति । तच्चाङ्गानां सन्नाह इत्युच्यते, येन भेदप्रथाशस्त्र प्रहारः परिहियत इति । अथ स्वसिद्धान्तैकयोग्यामर्थ्यशुद्धिमाह -- अर्घ्यं वेद्यविलास इति । प्रागुपपादिता पूजा खल्वर्ष इत्युच्यते । तदर्हमलौकिकं किञ्चिद् द्रवद्र- व्यमध्ये "यन्मुग्धानां प्रणयवचसि प्रौढिमानं विधत्ते यन्निर्विघ्नं निधुवनविधौ साध्वसं सन्धुनोति । यस्मिन् विश्वाः कलितरुचयो देवताश्चऋचर्य- स्तन्माध्वीकं सपदि कुरुते यत्र भोगापवर्गों ॥" इति श्रीतन्त्रालोकस्थित्या बाह्याभ्यन्तरोभयभेदात् स्वहृदयदेवतातृप्त्ये- कप्रयोजनतया प्रतिष्ठाप्यते । तच तत्त्वदृष्टया वेद्यविलास इत्यवगन्तव्यम् । वेद्यस्य विश्वविकल्पप्रसरलक्षणस्य यो विलासः सङ्कोचावस्थायामपि तत्त- त्स्वभावसर्वस्वानतिक्रान्तिरित्यौपचारिको व्यवहारः | अर्थतस्तु तादृग्विला- सवद्वेद्यमेवार्घ्यद्रव्यमिति पर्यवस्यति । तस्य शब्दस्पर्शरूपरसगन्धलक्षण- गुणपञ्चकाविनाभावात् पृथिव्यादि महाभूतपञ्चकस्यैतदुणस्थूलावस्थानुप्रवे- शमात्रानुप्राणनत्वात् सर्वोऽपि विश्वविक्षोभस्तत्रैव परिस्फुरतीत्यापतितम् । १. 'वतया' क. ग. पाठ:. २. 'क्कं तत्रैव का' ग. पाठ: ख. पाठः. ४. 'सि', ५. 'ह उच्य', ६. 'सेव देवतार्थ्य' ग. पाठ:. ३. 'क'