पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । 1 इत्यादिनीत्या तस्यात्यन्तंसुलभतयाध्यवसीयते, यतोऽयं विश्वपतिः विश्वस्य पूजाद्रव्याणां तदन्येषां च भावानां स्वात्मरूपतादात्म्योपपादकतयाधिष्ठाता भवति । तत् स्वत एवाशेषविश्वविलासव्यापकस्य भगवतः किमन्यकर्तृका- सवताम्बूलायर्पण डम्भविडम्बनेनेत्यर्थः । यदुक्तं श्रीविज्ञानभद्दारके - “यैरेव पूज्यते द्रव्यैस्तप्र्प्यते वा परावरः । यश्चैकः पूजकः सर्वः स एवैकः व पूजनम् ॥” इति । यथा च श्रीप्रभाकाळे "यावत् तत् परमं शान्तं न विजानन्ति सुन्दरि! | तावत् पूजाजपध्यानहोमलिङ्गार्चनादिकम् || विदिते तु परे तत्त्वे सर्वाकारे निरामये । क्क पूजा क जपो होमः क च लिङ्गपरिग्रहः ॥" इति । यदि पुनस्तान्येव द्रव्याणि तादृग्विमरीशक्त्या पवित्रीक्रियन्ते तत् स्वैरमासतां पूजोपकरणत्वेन । यदुक्तं श्रीभगवद्गीतासु - ENCANTAD ‘‘पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्त्युपहृतमश्नामि प्रयतात्मनः ॥” इति । मयाप्युक्तं संविदुल्लासे "स्वविभवविमर्शसुरभीण्याददते देवताः प्रसूनानि । ननु काननेषु सुलभं यदि तत् सामान्यसौरभात् तृप्तिः ||” इति । तादृग्विमशभावे तु "मुहुः कराग्रेण निरुध्य नासां मुहुश्च पार्श्वस्थमवेक्षमाणाः । देवान् यजन्ते कतिचिद् वयं तु स्वानन्दमुद्रैकमहासपर्याः ।।” इत्यादिनीत्या बाह्याडम्बर: केवलं विडम्बनामात्रफलकतया पर्यवस्यति । यदुक्तम चेनात्रिंशिकायां - “बालिकारचित वस्त्रपुत्रिकाक्रीडितेन सदृशं तदर्चनम् । यत्र शाम्यति मनो न निर्मलस्फीतचिज्जलधिमध्यमाश्रितम् ॥” ३. 'कोमळे' ग, पाठः. ४. 'र' क. पाठः ८८ १. 'न्तं', २. 'श्वरू'. ५. 'डनेन' क, ख, पाठः,