पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी णिअबळणिभाळणच्चिअ वरिवस्सा सा अदुळ्ळहा छोए । सुळहाइ वीसपइणो आसवतम्बुळळगन्धपुष्फाई ॥ ४२ ॥ निजवलनिभालनमेव वरिवस्या सा च दुर्लभा लोके । सुलभानि विश्वपतेरासवताम्बूलगन्धपुष्पाणि || इति । पूजा हि चारो रावश्चरुर्मुद्रेति चतुर्विधतयानायते । यथा श्रीचिद्गगनचन्द्रिकायां - “चाररावचरुभिर्विभेदितैर्मुद्रया च यदुपासनं तव । तु Pun तद्वशेन भजते परम्परा तावकक्रमगता स्फुटीकृतम् ॥" इति । तत्र चारः समयाचारः | रावो विमर्शः । चरुः प्रथमद्वितीयादि- द्रव्यम् । मुद्रा स्वात्मनः परमेश्वरत्वोपपादनाय स्वशरीरं प्रति कल्प्यमानः करचरणादिसन्निवेशविशेषो वेषधारणविशेषश्च । महती तु मुद्रा पर्यन्ततो राव एवान्तर्भवति । तत्र चतुर्ष्वपि पूजाक्रमेषु प्राधान्येन राव एवोपयुज्यते । अन्येषां तु पर्यन्ततस्तत्प्रयोजकतया परिग्रहणम् । तस्मात् स्वस्वरूपपरामर्श एव परमा पूजा । अन्यत्तु गन्धपुष्पधूपदीपादि आडम्बरमात्रमिति तात्प यर्थिः । अक्षरार्थस्तु - स्वहृदयस्फुरत्तारूपः परमेश्वर एव देवतेत्युक्तं, वक्ष्यते च । तत्र यन्निजं स्वात्मतादात्म्यानुप्रविष्टं बलं विश्वविक्षोभसहिष्णु- त्वलक्षणं विम्रष्टृत्वं, तत्पर्यालोचनमेव वरिवस्या | तच्च बलमित्येव व्यप- दिश्यते । यदुक्तं श्रीस्पन्दे – 'अपित्वात्मबलं मन्त्राः' इति । 'तदाक्रम्य बलं मन्त्राः' इति च । श्रीप्रत्यभिज्ञाहृदये च - 'बललाभे विश्वमात्म- - सात्करोति' इति । यथा श्रुतिः - 'न वा ओजीयो रुद्र ! त्वदस्ति' इति । सा च सपर्या लोके सामान्येन पूजकतयावस्थिते प्रमातृवर्गे निरूप्यमाणे स्वात्मदेवतया तेन परमेश्वरेण दुष्प्रापा | लोकस्य तथा निभोलकत्वाभावात् । कतिचन महायोगिन एव हि तथा पर्यालोचयितुं प्रगल्भन्त इत्येतादृश्यैवार्चनया भाव्यम् । अन्यापुनरासवाद्यर्पण रूपा 4X PRVA “दीपार्पणं दवाग्नेः पर्जन्यस्य प्रपाजलोद्वारः । वात्यायाश्च पटाञ्चलवीजनमेतत् तवाद्य नैवेद्यम् ॥” १. 'लस्पर्शा: इ' क. पाठः. २. 'पालनत्वा' क. ख. पाठ:.