पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेसा । । तथाच सति योऽयं प्रमातृलोकः, स सृष्टि- लोत्तीर्ण: कौळागममहामृतार्णवकर्णधारतयावधार्यते जनो वस्तुतत्त्व परिज्ञानाभावाज्जननमरणादिपीडितः मारभ्य भासापर्यन्तचक्रपञ्चकक्रमगणनया सृष्टेः सकाशात् स्थित्यादिचक्र- त्रितयान्तरिता पञ्चमी शक्तिर्भासत्यनयोर्विच्छेदमवबुध्यते । तत्त्ववृत्त्या तु सृष्टेरधिष्ठानभूमिर्भासा | तस्याश्च प्रथमपरिस्पन्दस्वभावतया प्रसपतया सृष्टिरिति विम्रष्टव्यम् । उपलक्षणं चैतत् । तेन स्थितेर्मूलकन्दः सृष्टिः सृष्टेः पल्लवः स्थितिरित्यादिक्रमोऽपि स्वयमूहनीयः । अत्रायं भावः - सृष्ट्यादिषु चतुर्षु कृत्येषु सृष्टिसृष्टिः सृष्टिस्थितिरित्यादिक्रमेण प्रत्येकं चातु- विध्यं, पर्यन्ततो भासापर्यवसायित्वं च | भासा च स्वरूपनिष्कर्षावलो- कने संविदैक्यैपरामर्शचमत्कारसारापि विश्वप्रतिविम्वयुक्त्यनुप्रविष्टप्रपञ्च- स्वभावानुकारितया पञ्चकस्वरूपैवेति । पञ्चापि कृत्यानि प्रत्येकं पञ्चका- त्मकतां नातिकामन्ति । तेषु च पूर्वपूर्वपञ्चकस्य पञ्चमीं कलामवलम्ब्यो- त्तरोत्तरस्य पञ्चकस्य प्राथमिकी परिस्फुरति । एवमुत्तरोत्तर पञ्चकप्रथमस्फु रत्तानामधोधः पञ्चकपर्यन्तशक्तिषु विश्रान्त्यनुभव इत्युत्पलदळदशशत विदळनलाघवोल्लासवत् क्रमसद्भावेऽप्यसंलक्ष्यक्रमा पारमेश्वरी पञ्चकृत्यँ, चक्रनिर्व्यूढिरत्यन्तगाढाभ्यासैः प्रौढैः कैश्चिद् विग्रष्टव्यतयावतिष्ठत इति इत्यमेतत्क्रमपरामर्श एव स्वात्मविमर्शरूपो जीवन्मोक्षः । यत आज्ञाधर- त्वादयो बाह्यविभूतिपरिस्पन्दाः स्वयमवर्जनीयतयोन्मिपन्ति । स च गुरुकटाक्षसम्पर्कीदृते न सम्पद्यते । यथा श्रीक्रमसिद्धौ "क्रकार: क्रोधरूपस्तु मकारो मङ्गळो भवेत् । क्रोधे तु मङ्गलं कुर्यात् क्रमः कालक्रमो भवेत् || गुर्वायत्तं क्रमज्ञानमाज्ञासिद्धिकरं परम् । क्रमज्ञानान्महादेवि ! त्रैलोक्यं कबलीकृतम् ||" . इति ।। ४१ ॥ एवमियता प्रपञ्चेन पूज्यदेवताचक्रस्वरूपं परमार्थतः परामृश्येदा- नीमस्याः पूजायाः पूर्वप्रस्तुताया अपि निष्कृष्टं वपुरुपपादयितुमाह - १. 'भे' क. पाठः. २. 'क्यच' ग. पाठः. ३. 'टप', ४. 'वात्मिका', ५. 'ति' क. पाठः. ६. 'षु पू', ७. 'त्यनि' ग. पाठः, ८. 'भूतिस्प' ख. पाठ:● ९. 'पे परामृ' ग० पाठः,