पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी "जन्मकाले भवेन्माता पूजाकाले च देवता । रतिकाले भवेद् दूत मृत्युकाले च काळिका ॥" इत्याचूह्यम् । तत्रोद्दिष्टमया सृष्ट्यादिमांसान्तं चक्रं श्रीदेवपाणिसम्प्र- दायानुप्रविष्टैरस्माभिरनुसन्धीयते, न पुनरेतद्विपर्ययेण | यथा श्रीक्रम- सद्भावे. "तेषां मध्यात् क्रमणैव आदौ पूज्यस्तु कः क्रमः । तन्मे कथय सुश्रोणि ! विस्तरेण यथाविधि ॥” इति प्रश्नानन्तरं - “पुरा यत् कथितं देव ! पञ्चवाहमहाक्रमम् । तेषां तु क्रमराजानां सृष्टिरूपोऽग्रतः सदा ॥ ततस्तु स्थितिसंहारमनाख्यं च ततः परम् । भासाख्यं च ततः पश्चात् पूजयेदक्रमक्रमम् ॥” इति । एतत्पञ्चकप्रणेतृत्वमेव परमेश्वरस्य तत्पारमैश्वर्यमित्यसकृदवोचाम । यन्नष्टार्थचतुष्कावभासनं लीनमेयत्रयवासनानुवृत्तित्वं मेयमानघस्मरवेत्तृत्व सविकल्पकमेयविमर्शः, निर्विकल्पकमेयावभास इति क्रमादागमेषु संक्षेपेणो- पपाद्यते । अत्र च तत्तद्देवतामन्त्रोद्धारो मदीये महार्थोदये पर्यालोच- नीयः ॥ ४० ॥ अथेत्थमुपदिष्टस्य सृष्ट्यादिपञ्चकस्य प्रत्येकं स्फुरणप्रकारे किञ्चिद् यौगपद्यं विम्रष्टव्यमित्याह - सिठ्ठीए पञ्चमकळा भासेत्ति जणो गणइ ववहाणं । सिट्टीए मूळकन्दो भासा भासाए पळळवो सिट्ठी ॥ ४१ ॥ सृष्टेः पञ्चमकला भासेति जनो गणयति व्यवधानम् | सृष्टेर्मूलकन्दो भासा भासायाः पद्धवः सृष्टिः ॥ इति । परमेश्वरो ह्यलातचक्रच्छायया सृष्ट्यादीनि पञ्चकृत्यान्य विच्छिन्नमुद्भावयन् स्रष्टृत्वस्थापयितृत्वाद्यशेषानुवृत्तमात्मनः कर्तृत्वोत्कर्ष मनुभवन्नास्ते, येनायं विम्रत्वापपर्यायेण जडब्रह्मवादिसिद्धान्तपङ्कपल्व- पाठ: "भासान्तश्च क्रमः श्री', २. 'णी' क. ख. पाठः, ३ ' चेतृत्वं' ख. ग. ४. 'ब' ग. पाठः,