पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमळोपेता | इति । विवेक्रिनां तु गण्यते संख्यायत इति गणः षडध्वा भोगरूपोल्लासः, तु तं पाति रक्षति इति गणपतिरित्यादिप्रक्रिययात्यन्तसुखसाध्योऽयं निरु- क्तिप्रकारः । यतस्त एवाहुः – “अप्यक्षरवर्ण सामान्यान्निर्भूयात्, न त्वेवें न निर्धूयात्" इति । पञ्चैव पञ्चवाहपदव्यामिति । दाहाः परमेश्वरस्य स्फुरणधाराः | ताश्च पञ्च, अन्यूनानतिरेकितयोपलभ्यमानत्वात् । तन्मयी च या पदवी विश्वगमागमस्थानभूता प्रवृत्तिः । ताः पञ्चैव कला इत्यन्वयः । एवकारेण पञ्चवाहशब्दस्यान्वर्थतोच्यते । ते च वाहाः व्योमवामेश्वरी खेचरी दिक्चरी गोचरी भूचरीति च भवन्ति । अन्ये पुनरासां कर्म गोदिग्भू- रूपं भूदिग्गोरूपं चाचक्षते । तत्र तत्सम्प्रदायानुगुण्यात् तन्निरुक्तिरूया | अस्मत्क्रमस्तु निर्दिष्टकम एव । यथा श्रीक्रमसिद्धो "व्योमवामेश्वरीसंज्ञा नादभूमिश्व खेचरी । आनन्ददिक्चरीसंज्ञा गोचरी मन्त्रभूमिका || मन्त्राणां द्रव्यरूपत्वादावलिभूंचरी तथा ।" इति । मयाप्युक्तं श्रीकोमळवल्ली स्तवे - "भूतले किमथ किं गवां कुले दिङ्मुखेषु किमथो किनम्बरे । किं ततोऽप्युपरि सर्वतश्च किं दृश्यसे तदपि किं न मृष्यसे ॥" इति । तत्र व्योनामोमात्मकप्रणव रूपताविमर्श वैशिष्टयानुप्राणनानां वक्ष्यमा- णसर्वपञ्चकात्मनां वामं वगनं प्रतीश्वरी सामर्थ्यशालिनीति व्योमवामेश्वरी। सा च परमेश्वरस्याविकल्पभूम्यनुप्रविष्टा चिच्छक्तिः । खे वोधरूपे प्रमा- तरि चरणात् खेचरी । दिक्ष्वन्तःकरणेषु चरतीति दिक्चरी | गोवु बहि- रिन्द्रियेषु सञ्चरणाद् गोचरी | भुवि विवयभूमौ चरणाद् भूचरीति । • पारमेश्वरी हि संवित्स्वातन्त्र्यस शक्तिः प्रकृत्या निर्विकल्पकपदाधिरूढापि क्वचित् परिमिते प्रमातरि स्फुरन्ती तदनु तदन्तःकरणानुप्रविष्टा पश्चात् तस्यैव बाह्येन्द्रियानुबन्विनी च भूला बहिवैद्यलक्षगं विषपोल्लासमखिल- मुपयुत इति सर्वपथीनोऽयं प्रकारः । एता एव चिदानन्देच्छाज्ञानक्रिया- ख्याः शक्तयः परा सूक्ष्मा पश्यन्ती भव्यमा वैखरीति वागूपाश्चानुभूयन्ते । १. 'ना' ग. पाठः. २. श्री वेद्योला' उ. पाठ: ३, 'तिप' ग. पाठः ४. 'वं' 'वं नि' ग. पाठः. ५. 'षु चर' क. ग. पाठ:. ख., N