पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी यतश्चिच्छक्तिस्तावत् परमेश्वरस्य चैतन्यलक्षणा सर्वनिर्वाहकत्वपर्यायपरम- स्वातन्त्र्यमयी व्योमवामेश्वरी | आनन्दश्यावच्छिन्नप्रमातृस्वात्मविश्रान्ति- स्वभावत्वात् खेचरी | इच्छा चाभ्युपगमरूपत्वादन्तःकरणप्रसाध्येति दिक्- चरी | ज्ञानं च बहिर्मुखं चक्षुरादिभिर्वाह्येन्द्रियैरुद्दीप्यत इति गोचरी । क्रियापि पारमेश्वरीषु शक्तिप्वत्यन्तस्थौल्याद् बहिर्वेद्यवर्गवैचित्र्य एवोपल- भ्यत इति भूचरी । एवं परादिवाक्पञ्चकोऽपि । “विमर्शो विन्दुनादौ च स्फोटः शब्दश्च वाक्क्रमः" इति श्रीपादुकोदयप्रक्रियया तत्तदुदयानुगुण्यादुक्तशक्तिपञ्चकात्मकत्वं स्वयमूहनीयम् | अन्यच्च सृष्टिस्थितिप्रभृतिपञ्चकीभूतमखिलमत्रैवान्तर्भ- वति । एताश्च श्रीक्षेमराजादिभिः पुस्तकेषु लिखितपठिता इत्यस्माभिरपि नामोपादनपूर्वकं चाकित्येन व्याख्याता इति । अथैवं पञ्चधा वहतः पर- मेश्वरस्य प्रमातृप्रमाणप्रमेयतया त्रैविध्येनोपास्तिप्रकारं सूचयन् मूर्तिचक्रं तावदाह - सप्तदशफालनेत्र इति । फालो ललाटम् । तद्गते नेत्रे सप्तदश शक्तयः । तच्च मूर्तिचक्रमित्याम्नायते । मूर्च्छनान्मोहरूपात् समुच्छ्रयणरूपाद वा मूर्तित्वम् । तच्चान्त हिरहन्तेदन्ताद्वितय स्फुरणानुगुण्यात् तत्र यदाह- न्तायाः समुच्छ्रायः, तदेदन्ताया न्यग्भावरूपो मोहो भवति । यदा पुनरि दन्तायाः समुच्छ्रायः, तदाहन्ताया उक्तरूपो मोह इति द्वयमप्येकार्थम् । एवञ्च प्रमातृवह्निरूपस्य परमप्रकाशरूपस्य परभैरव संवित्पर्यन्तमुत्कर्षः पाषाणादिजडसंवित्पर्यन्तं न्यूनीभावश्चेति महती स्वातन्त्र्यशक्तिर्मूर्तिशब्दे- नोच्यते । तत्र च कलाः सप्तदशोच्यन्ते । अग्नेर्वाह्याभ्यन्तरविभागन कला- दशकं शिखासप्तकं चेत्याम्नायेषु प्रसिद्धम् | यथाहुः - "धूम्राचिरूष्मा ज्वलिनी ज्वालिनी विष्फुलिङ्गिनी । सुश्रीः सुरूपा कपिला हव्यकव्यवहे कलाः ॥ हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा । बहुरूपातिरक्ता च सर्व जिह्वा हविर्भुजैः ।। इति । तत्संख्यया मूर्तिचक्रशक्तयस्तावत्य इति । ताच पर्यालोच्यमानाः १. क. पाठः. 'व्योमे' क. ग. पाठ: २. 'तिंचकम् । त', ३. 'शस्य', ४. 'शायन्ते' ५. 'च' ग. पाठः ७. 'जः ॥ येषाम' क. पाठ:.