पृष्ठम्:महाभास्करीयम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

fr ७ १० राशय: कालतत्त्वज्ञैरनुपाताप्तमेव च । मध्यलग्नमिदं स्पष्टं' श्रीमद्भटमुखोदितम् ।।११।। कक्ष्याभेदाच्छशीभान्वोर्जीवाभेदः प्रकीर्तितः । ज्ञापकं च स्वदृक्षेप इत्यादिवचनं प्रभोः ।।१२।। बाहुज्योदयलग्नस्य परक्रान्तिहता' हृता । लम्बकेनोदयज्याप्ता कक्ष्यायां भास्वतः स्फुट | ॥१३॥ सैंहिकेयविहीनस्य जीवा लग्नस्य ताडिता | तिथिभिश्चन्द्ररन्धैकैविक्षेपज्या विलग्नजा ॥ १४॥ विलग्नक्रान्तिविक्षेपधनुषोस्तुल्यदिक्कयोः । युक्तिवियुक्तिरन्यत्वे शेषकाष्ठगुणाहतम् ||१५|| उदयज्येन्दुकक्ष्यायां व्यासार्धं लम्बकोद्धृतम्" । राहूनमध्यलग्नाच्च विक्षेपज्या प्रसाध्यते ॥ १६॥ मध्यक्रान्तिविषुवज्ज्याकाष्ठयोरेकदिक्कयोः” । योगो वियोगो वाऽन्यत्वे" मध्यज्या शेषदिग्वशात् ” ||१७|| रवेरिन्दोः पलक्रान्तिविक्षेपधनुषां" वशात् । योगविश्लेषजा जीवा मध्यज्या शेषदिग्भवा ।।१८।। स्वमध्यज्योदयाभ्यासं विष्कम्भार्धाप्तवगितम् । ७ मध्यज्यावर्गतोऽपास्य" स्वदृक्क्षेप " पदं विदुः ।।१९।। गतगन्तव्यनाडीभिर्दृग्ज्या पूर्वोक्तकर्मणा । १४ साध्या रवेश्शशाङ्कस्य” विधानमिदमुच्यते ||२०|| १४ १ मध्यलग्ना A, B. कक्याभेदाच्छश्चीभावो जीवाभेद: A; कक्ष्याभेदाच्च- चीभावो जीवाभेदः B; कक्ष्याभेदाच्छशिभान्वोर्जीवाभेद: C. प्रकीर्त्यते C. ज्ञापनं च स्वदॄक्षेपौ A, B. ...त्यादिवचनं B. परत्रास्ति हता C. भास्वते स्फुट: A. B; ११ १२ भास्वतः स्फुटम् C. ' पिलग्नजा C. विलग्नकान्तिपक्षेवध B. " शेषकाष्ठगुणाज्ज्यागता A, B. लम्बकाहृतम् C. "ज्ज्याताष्टयोरेक दिक्कयो: A, B; काष्ठयोरेकद्रिक्रयोः शेर्पादिशात् B. १५ पलाक्रान्तिविक्षेपधनुषां C. १३ नानात्वे C. १६ This C. verse is missing from A, B. 'स्वमध्योदययाभ्यासाद्विष्कम्भार्वाप्तवगितात् A, B; स्वमध्यज्योदयाभ्यासविष्कम्भार्धाप्तवर्जितम् C. "° तोऽवास्य C. १९ A and B read दॄक्षेप in place of दृक्क्षेप. गतगन्तव्यनाडीभिर्भज्यात् A, B. २२ भवेच्छ- शाङ्कस्य A, B. २ २० [ महाभास्करीये १७ ३ ४