पृष्ठम्:महाभास्करीयम्.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽध्यायः भास्वतो ग्रहणं वाच्यमाचार्यार्यभटोदितम् । तस्य चादौ विजानीयादुपायानां विनिश्चयम् ॥ १॥ पञ्चाष्टभूतरन्ध्रेषुवेदाः कर्णो विवस्वतः ।' सप्तपर्वतरामाब्धिगुणसंख्या निशाकृतः ||२| कलाकर्णहतावेतौ विष्कम्भार्धविभाजितौ । स्फुटयोजनकर्णौ तौ सूर्याचन्द्रमसोविंदुः' ।।३।। दिग्वेदसागरा भानोरिन्दोस्तिथिहुताशनाः | योजनैरुच्यते सद्भिर्भूव्यासः खेषुपङ्क्तयः' ।।४।। विष्कम्भार्धहतौ व्यासौ स्फुटयोजनभाजितौ । भवतस्तौ कलाव्यासावुष्णशीतलतेजसोः ॥५॥ नवांशाः पञ्चभोगस्य भूतवर्गांश एव च । स्वतुरीयविलिप्ताभिर्युतहीने तनू स्फुट ॥६॥ सूर्याचन्द्रमसोर्विद्धि राहुबिम्बं च कथ्यते । पङ्क्त्यंशश्चन्द्रभोगस्य षोडशांशो विलिप्तिकाः ।।७।। अथातो मध्यलग्नस्य विधानं सम्प्रवक्ष्यते । निरक्षासुभिरुत्पत्तिर्बोद्धव्या शास्त्रकोविदैः ॥८॥ पूर्वाह्ये सूर्ययुक्तस्य गतभागासवो हि ये । गन्तव्यानां चापरा भागानामसवः स्मृताः ॥ ९॥ मध्यतिथ्यन्तरासुभ्यः शोध्या भागादि' भास्करे । शोध्या देयाश्च भूयोऽपि निरक्षासुवशाद्रवौ ॥१०॥ १ 'पञ्चाष्टरन्ध्रभूतेषुवेदाः कर्णो विवस्वतः A, B; पञ्चाष्टभूतरन्ध्राणि भूतवेदा विव- स्वतः C. २ ° सोस्सदा C. सदभिर्भुवासः खेषु पङ्क्तिभिः A, B.

  • कलाख्यासा° A, B;

५ ° शीतगुतेजसोः A, B, C.

  • षोटशांशोनलिप्तिका: A, B.

युक्तहीने तनुः स्फुटे A, B; युतहीने तनूस्फुटम् C. ' गन्तव्याणां चापराह्ने B; गन्तव्यानामपरा C. मध्यं तिथ्यन्तराशाभ्य: A; मध्यं तिथ्यन्तराभ्य: B. ` भागाश्च A, B; भागाहि C.