पृष्ठम्:महाभास्करीयम्.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः कृत्वा देशान्तरं कर्म रवेरुच्चं विशोधयेत् । शेषं' सूर्यस्य यत्केन्द्रं तस्मिन् राशित्रयं पदम् ॥१॥ जीवाः क्रमोत्क्रमाभ्यां तु ग्राह्याः केन्द्रपदक्रमात् ।' जीवानां ग्रहणोपाय : " कथ्यते विस्तरेण सः ॥ २॥ लिप्तीकृत्य हरेन्मख्या जीवा लब्धास्ततः पुनः । वर्तमानाहतं शेषं मख्या चैव विभाजयेत् ॥ ३॥ पूर्वसङ्कलिते युक्ते ज्याः क्रमेणोत्क्रमेण वा । स्वपरिध्याहतेऽशीत्या लब्धं क्षयधनं फलम् ॥ ४॥ केन्द्रात्पदविभागेन क्षयधनधनक्षयाः । देशान्तरकृते सूर्ये कुर्यात्तन्मध्यमे सदा ॥५॥ केन्द्रे क्रियादिके” चाथ फलं बाहोविंशोधयेत् | तुलादिके तु तन्नित्यं देयं स्फुटदिदृक्षुणा" ॥६॥ क्रमोत्क्रमफलाभ्यस्ता मध्या" बाहुफलेन " वा । भुक्तिश्चक्रकलालब्धं पूर्ववत्तत्प्रकल्पयेत् ॥७॥ बाहुकोटी" क्रमात्केन्द्रे कोटिबाहू " गतागते । तयोर्गुणफले प्राग्वत् कर्णार्थे परिकीर्तिते ॥८॥ आद्ये पदे चतुर्थे च व्यासार्धे कोटिसाधनम् । क्षिप्यते शोध्यते चैव शेषयोः कोटिका भवेत् ॥ ९॥ तद्वाहुवर्गयोगस्य मूलं" कर्णः प्रकीर्तितः । बाहुकोटिफलाभ्यस्ते कर्णे व्यासार्धभाजिते ॥१०॥

  • जीवाया
  • शिष्ट: C.

२ तत्केन्द्रं C. ' जीवाः पदक्रमात् missing from C. 'ग्रहणोपायं C. " ज्याक्रमेणोत्क्रमेण C. " स्वपरिघ्याहताशीत्या भक्तोऽक्षयधनं १० केन्द्रात्- ५ A, B. C. “ क्षयं घनघनक्षयाः A; क्षय्यं धनधनक्षया: B. 'देशान्तरीकृते A C. १३ क्रियादिके A, B. १९ केन्द्रक्रियादिगे वा फलं वाहोविंशोध्यते । तुलादिगे च तन्नित्यं देयं स्फुटदिदृक्षुभिः ॥ C. १९ क्रमोत्क्रमफलाभ्यस्तां मध्यां A, B. बाहुः फलेन A. 'भुक्ति- १५ कोटिबाहु B, C. श्चककलावाप्ता A, B. १५ बाहुकोटि A, B, C. १७ प्राग्वत्कर्णार्धा १८ परिकीर्त्यते A, B. १९ तद्बाहुवर्गसंयोगमूलं A, B. C.