पृष्ठम्:महाभास्करीयम्.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः ] छायाप्तस्फुटदिवसार्धतिग्मरश्म्यो- रध्वानं विवरकलाग्रमाहुरेके । नैतत् स्यात् समपरपूर्व दिस्थितानां तुल्यत्वात् पलगणितस्य वर्णयन्ति ॥ ६ ॥ सूर्येन्द्वोरकृतसमाध्वनोविधानात् सम्प्राप्त स्थितिदलदृष्टकालयोश्च' । विश्लेष: स्फुटतर उच्यतेऽत्र कालो गोलज्ञैविदितभटप्रणीततन्त्रैः ॥ ७ ॥ ४ नित्यं वा शशिन मदेशकालसङ्ख्यं सूर्यञ्च स्फुटमुदयास्तगं घटीभिः । कृत्वैवं जलविधिना घटीश्च बुद्ध्वा "तन्त्रज्ञा विवरमुशन्ति देशकालम् ॥ ८ ॥ ग्रहोदयो यदा पूर्व स्पर्शः पश्चाच्च लक्ष्यते' । पूर्वेण समरेखाया द्रष्टा " स्यात्पश्चिमेऽन्यथा ॥ ९ ॥ कालेनाहत्य भुक्ति ग्रहरवितमसां देशजातेन नित्यं षष्ट्या हृत्वाऽथ लब्धं जलपसुरपयोदिग्गतानां धनर्णे" । लम्बेनाहत्य भूमेः सकलगुणहृते वृत्तसङ्ख्यां घटीभि र्हत्वा" देशान्तराभिर्गगनरसहृते योजनाग्रं वदन्ति " ॥१०॥ इति महाभास्करीये द्वितीयोऽध्यायः । ' छायार्धस्फुटदिवसस्थतिग्मरश्म्यो: A; छायार्थस्फुटदिवसतिग्मरश्म्यो: B; छायार्ध- २ फलगणितस्य A, B. तिग्मरश्म्यो: C.

  • सम्प्राप्तस्सतिदलकालदृष्टयोश्च

६ A, B.

  • गोलोक्तविदितभटप्रणीतनेत्र: A, B. " सूर्यश्च A, B.

७ 'स्फुटमुदयास्तथा A; स्फुट- मुदयास्तथङ् B; स्फुटमुदयास्तनं C. ' तत्र स्याद्विवरमुशन्ति A; तत्रस्य द्विपरमुशन्ति B. पूर्व: C. ' स्पर्शश्चैवोपलक्ष्यते A, B; स्पर्शश्चैवोपलभ्यते C. भ्रष्टा A, B. षष्ट्या हृत्वाथ लब्धा जलवसुरवयोदिग्गतानां धनर्णे A; षष्ठ्या हृत्वाथ लब्धा जलवसुरवयो दिग्गतानां धनर्णे B; षष्ट्या हत्वाथ लब्धः जलवसुरवयो दिग्गतानां धनं तत् C. हृत्वा C. ?" In MSS A and B the last two lines read as follows: लम्बेनाभ्यस्य भूमेस्सकलगुणहृतो वृत्तसंख्याघटीभिहं त्वा देशान्तराभिर्गगनरसहृतो योजनाग्रं वदन्ति । १२ १०