पृष्ठम्:महाभास्करीयम्.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः लङ्कातः खरनगरं सितोरुगेहं पाणाटो' मिसितपुरी तथा तपर्णी । उत्तुङ्गस्सितवरनामधेयशैलो लक्ष्मीवत्पुरमपि' वात्स्यगुल्मसंज्ञम् ॥ १ ॥ विख्याता वननगरी' तथा ह्यवन्ती स्थानेशो मुदितजनस्तथा च मेरुः । अध्वाख्यः' करणविधिस्तु मध्यमाना- मेतेषु प्रतिवसतां न विद्यते सः ॥ २ ॥ अक्षांशान्निगदितपत्तनांशहीनान्' संहन्यान्नवनवपक्षपुष्कराख्यैः । अष्टाभिश्शरकृतिभागहीनसङ्ख्यै श्चक्रांशैरपहृतयोजनानि कोटिः ॥ ३ ॥ कर्णाख्यः स्वगदितपत्तनान्तराध्वा" तिर्यस्थो जनपदभाषितो" जगत्याम् । तत्कृत्योविवरपदं वदन्ति केचि - दध्वानं ग्रहगणितस्य वेदितार : ” ॥ ४ ॥ अध्वानं गणितविदो भटस्य शिष्या: १४ स्थूलत्वाच्छ्रवणविधेर्न सम्यगाहुः । अक्षादेरपि च विधेरथोपपत्तिं वक्रत्वात् क्षितिपरिधेर्वदन्ति सन्तः ॥ ५ ॥ ' वाणाटो A, B. २ तथातपण्णि A, B. ३ लक्ष्मीवत्परमपि A. 'खात्यगुल्म° A, " From पाणाटो to वात्स्यगुल्मसंज्ञम् is missing from C. " परनगरी C. " तथा ह्यवन्ति B; तथाप्यवन्ती C. ' निन्ध्याख्य: A; विन्ध्याख्य: B; अधाख्य: C. १९ स्वविहितपत्तनान्त- B. १२ जनवदभाषितो B. 'स्वाक्षांशाणिगदितवित्तनाशहीनात् A, B. १° चन्द्रांश: ° A, B. रध्वा A; स्वविहितपत्तनान्तरद्धा B; स्वर्गादितपत्तनान्तराध्वा C. " गणितस्य वेदितारम् A; गणितस्य वेदिस्तारम् B. B; विधेरथाप्रवृत्ति C. १६ चक्रत्वात्क्षितिपरिधेर्भवन्ति C. ४ शिष्यान् C. १५ विधेरथोपपत्ति