पृष्ठम्:महाभास्करीयम्.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः ] यथेष्टनक्षत्रगणैर्हतं हरेत् तदीयनक्षत्रगणैस्ततः कलाः ॥१०॥ युगाधिमासैर्द्युगणं हतं हरेत् क्षमादिनैर्वा भगणादि लभ्यते । त्रयोदशघ्ने सवितर्यथ' क्षिपे- न्निशीथिनीनांपतिचारसिद्धये ॥११॥ कुमुद्धतीनां सुहृदोऽथवाऽऽगतं विशोध्य शेषस्य लवस्त्रयोदशः । स मध्यमार्को गणकैनिरूप्यते गुरुप्रसादात्प्रतिबुद्धबुद्धिभिः ।।१२।। विना चुराशेरपि चन्द्रभास्करौ प्रकुर्वतो वा विधिरेष कथ्यते । समासु मासीकृतविग्रहासु ये ह्यतीतमासा विनियोज्य तान् पुनः ॥१३॥ खरामनिघ्नान् दिवसेषु योजयेद् गतेषु मासस्य ततोऽधिमासकैः । निहत्य सर्वं विभजेत सर्वदा युगार्कमासैदिवसत्वमागतैः ॥१४॥ · भवन्ति लब्धास्त्वधिमासका: पुन स्ततोऽपनीयाशु च भागहारकम् । भजेत शेषं शशिमाससङ्ख्ययां ततोंऽशलिप्ताविकला : सतत्पराः ||१५| ततोऽधिमासान् प्रणिहत्य खाग्निभि नियोज्य ं सम्यग्गतवासरैः क्रमात् । युगावमघ्नाञ्छशिवासरैर्हरेत् तमत्र शेषं प्रवदन्ति चाह्निकम् ॥१६॥ ' सवितर्यना A; संवितयंता B. २ निशीथिनीनां पथिचारसिद्धये A, C; निशीथिनानां पथिचारसिद्धये B. च वस्त्रयोदश C. "राशेरगि

  • Missing in A and B.

" भवेदशेषा: A, B. 'ततांश लिम्ताविकलाः A. A, B. 'विनियोज्यतां पुन: C. 'सुयोज्य A, B. " युगावमघ्नाच्छशिवासरर्हरेत् A, B.