पृष्ठम्:मयमतम् TG Sastri 1919.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८२
मयमते


पीत्वा शुद्धं पयो रात्रावपराभिमुखोऽपरः।
स्थपतिर्वरवेषाढयो मन्त्रयेत् सपरश्वथः॥ ८८ ॥

अयं मन्त्रः-

अपक्रामन्तु भूतानि देवताच सगुह्यकाः।
युष्मभ्यं तु बलं भूयः सामा दिशतु पादपाः!॥ ८९ ॥
शिवमस्तु महीपुत्रा! देवताच सगुह्यकाः!।
कमैतत् साधयिष्यामि क्रियतां वासपर्ययः॥९॥
एवमुक्त्वा नमस्कृत्य पादपेभ्यो नमः शुचिः।।
दुग्धतैलधुतैः सम्यक सन्तेज्य परशोर्मुखम् ॥९॥
उपक्रामेत् तु तं छेत्तुं यथाकामं वनस्पतिम् ।
मूले हस्तं व्यपोह्योधं निश्छित्वा तत्र लक्षयेत् ॥ ९२ ।।
वारिस्रावो विवृद्ध्यर्थः क्षीरे घुविवर्धनम् ।
शोणितं स्वामिनं हन्याद् वर्जयेत् ते प्रयत्नतः।। ९३ ॥
पतने सिंहशालहस्तिशब्दाः सुशोभनाः।
रुदितं हसितं क्रोशं कृजित निन्दितं वरैः॥ ९४ ॥
पातयेदुत्तराग्रं तु पूर्वाग्रं वा वनस्पतिम्।
ते दिशौ शुभदे स्यातामन्याशासु विपत्तये ॥९५॥
सालाश्मर्यजकणीनामूधै तु पतनं शुभम् ।
मुले पृष्ठागमे बन्धुप्रेप्ययोश्र विनाशनम् ॥ ९६ ॥
निर्गमस्थितिमद् भूत्वा वृक्षान्तरनिपातने ।
शिरःसङ्गेन नाशः स्यान्मूलसङ्गे श्रमो भवेत् ॥ ९७ ॥