पृष्ठम्:मयमतम् TG Sastri 1919.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८१
पञ्चदशोऽध्यायः ।।

विनष्टवस्तुसञ्जातद्रव्यं सर्वविपत्करम् ।
तस्मात् सर्वप्रयत्नेन शुद्ध द्रव्यं प्रगृह्यताम् ॥ ७७ ॥
शिला देवालये ग्राह्या द्विजावनिपयोर्ताः ।
पाषण्डिनां च कर्तव्या न कुर्याद् वैश्यशूद्रयोः ॥ ७८ ॥
कर्तव्यं यदि तद् वास्तु धर्मकामार्थनाशकृत् ।
एकद्रव्यकृतं शुद्धं मिश्रं द्विद्रव्यनिर्मितम् ॥ ७९ ॥
त्रिद्रव्यसंयुतं यत्तु तत् सङ्कीर्णमुदाहृतम् ।
पूर्वोदितानां वासेषु कर्तव्यं सम्पदां पदम् ॥ ८० ॥
सर्वहारिकनक्षत्रे शुभपक्षमुहूर्तके ।।
गच्छेदरण्यं द्रव्यार्थी कृतकौतुकमङ्गलः॥ ८१॥
निमित्तैः शकुनोग्यैः सह मङ्गलशब्दकैः ।
गन्धैः पुष्पैश्च धूपैश्च मांसेन कृसरेण च ॥ ८२ ॥
पायसौदनमत्स्यैश्च भक्षैश्चापि पृथग्विधैः ।
अर्चयेदीप्सितान् सर्वान् वृक्षांश्च वनदेवताः ॥ ८३ ॥
भूतक्रूरबलिं दत्त्वा कर्मयोग्यछमं (वरैः ? हरेत् )।
मूलाग्रादार्जवं वृत्तं शाखानेकसमन्वितम् ॥ ८४॥
तत्तु पुंस्त्वं भवेन्मूले स्थूलं स्त्रीत्वं कृशाग्रकम् ।
स्थूलाग्रं कृशमूलं तु षण्डमेतदुदीरितम् ॥ ८५॥
मुहूर्तस्तम्भमुद्दिश्य पुंभूरुह उदीरितः ।
सर्वेष्वङ्गेषु वस्तूनां पुंस्त्रीषण्डं प्रकीर्तितम् ॥ ८६ ।।
पूर्वाशायां द्रुमस्यास्य स्वपेद् दर्भान्तरे शुचिः ।
खप्रदक्षिणपार्श्वे तु संस्थाप्य परशुं सुधीः ।। ८७ ॥