पृष्ठम्:मयमतम् TG Sastri 1919.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८३
पञ्चदशोऽध्यायः ।।

शरीरभङ्गं कर्तृणां नाशमग्रेऽप्यपत्यहत्।
अन्योन्यपतनं पूज्यं छेद्यं चोभयतः समम् ॥ ९८ ॥
चतुरश्रमृजुं कृत्वा मुहूर्त स्तम्भसङ्ग्रहे ।
सितपट्टेन सञ्छाद्य स्यन्दने न्यस्य वेशयेत् ॥ ९९ ॥
देवद्विजमहापानां विशां वै शकटेन तु ।
शूद्रस्य पुरुषस्कन्धेनानीयात तु विचक्षणः ॥१०॥
सर्वेन्द्रकीला एवं स्युः प्रापणीयाः प्रयलतः ।
अन्येषामपि कुप्यानां वेशन त्वग्रमग्रतः ॥ १०१ ॥
पार्श्वयोः शाययित्वा तु शकटे न्यस्य वेशयेत् ।
प्रशस्ते हारि प्रग्राह्य स्थपत्यनुगतमम् ॥१०२॥
कर्ममण्डपके न्यस्य वालुकोपरि शाययेत् ।
प्रागग्रं चोत्तराग्रं बाप्याशुल्क रक्षयेत् पुनः ।।१०३ ।।
परावृत्तं न कर्तव्यमापामासं तु स दुभः ।
मुहूर्तस्तम्भो देवानां द्विजातीला यथाक्रमम् ॥ १०४॥
कार्तमालश्च खदिरः खादिर मधूककः।
राजादनो यथासङ्ख्यं विस्तारायासमुच्यते॥ १०५॥
भानुरुद्रदशहारवितस्त्यायामसंयुताः।
तत्सङ्ख्याङ्गुलिविस्तीर्णाः पयशानायविस्तराः।।१०६॥
भूतसार्धचतुर्वेदगुणतालनिखातकाः।
भूमिभूमिवशादुक्तं स्तम्भोयं विपुलं तु वा ॥१०७ ॥
झषालाङ्घौ तु सर्वत्र निखातं परिवर्जयेत् ।
अश्वत्थोदुम्बरश्चैव लक्षश्च वटवृक्षकः॥१०८ ॥

98