पृष्ठम्:मयमतम् TG Sastri 1919.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७९
पञ्चदशोऽध्यायः ।।

दारुस्तम्भविशालं वा सार्ध द्वित्रिगुणं तु वा ।।
शिलारतम्भविशालं स्याद् देवानां नैव मानवे ॥ ५५ ॥
इष्टकाश्मद्रुमैः सर्वैः स्तम्भाः प्रोक्ताश्चिरन्तनः ।।
युग्मायुग्मं तु देवानामयुग्मं तु नृणां मतम् ॥ ५६ ।।
अन्तःस्तम्भं बहिःस्तम्भमाजुसूत्रं यथा भवेत् ।
गृहाणां भित्तिमध्ये तु शालानां तु तथा भवेत् ।। ५७ ॥
प्रासादानां तु पाद्वाह्ये पान्मध्ये शयनासने ।।
उपानादिशिरः केचित् केचित् स्तूप्यन्तमुन्नतम् ॥ ५८ ॥
मुनयः प्रवदन्त्युच्चे प्रासादे सार्वदेशिके।
पाहाह्ये पादमध्ये वा सभामण्डपयोर्मतम् ॥ ५९।।
अन्तर्वहिश्च मध्ये तु सालानां मानसूत्रकम् ।
युञ्जीयादेवमेवं तु सर्वेषां सम्पदां पदम् ।। ६० ।
विपरीते विपत्यै स्यादिति शास्त्रविनिश्चयः ।
स्तम्भोत्तरादिकाङ्गानां द्रव्यं दुमोपलेष्टकाः ।। ६१ ॥
स्निग्धसारमहासारा ह्यवृद्धास्तरुणेतराः ।
अवका निव्रणाः सर्वे ग्रहीतव्या महीरुहाः ॥ ६२ ॥
पुण्याविनतीर्थस्था दर्शनीया मनोरमाः ।
सर्वसम्पत्समृद्यर्था भवेयुस्ते न संशयः ॥६३ ।।
पुरुषः खदिरः सालो मधूकः स्तम्बकस्तथा।।
शिशपार्जुनाजकर्णी क्षीरिणी पद्मचन्दनौ॥ ६४ ॥
पिशितो धन्वनः पिण्डी.सिंहो राजानः शमी।
तिलकेश्च द्रुभाश्चैते स्तम्भवृक्षाः समीरिताः ।। ६५ ॥