पृष्ठम्:मयमतम् TG Sastri 1919.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६१
मयमते।

तत्खाते सलिलेनैव पूरितेऽक्षयता शुभा ।
समत्वं सलिलेनैव साधयित्वा विचक्षणः ॥ ६ ॥
गर्भ प्रक्षिप्य तं नी(त्या होमं ? त्योपानं) तत्र निधापयेत् ।
स्तम्भद्वित्रिगुणव्यासं तदर्धबहलान्वितम् ॥ ७ ॥
उपानोपरि पद्म चोपोपानं च तद्वतः ।
यथाशीभांशमानेन कुर्यात् तत्र विचक्षणः ॥ ८ ॥
उन्नतां प्रकृति भूमि कृत्वा हस्तप्रमाणतः ।
घनीकृत्य तद्ध्वेस्थ(उ?मु)पानं जन्म चोच्यते ॥ ९ ॥
तद्ध्वस्थमधिष्ठानं सोपपीठं तु केवलम् ।
सस्तम्भं वा सकुड्यं वा जङ्घावर्ग तदूर्ध्वगम् ॥ १० ॥
भूमिदेश इति ख्याता कपोतोāगता प्रतिः ।
प्रासादादीनि वास्तूनि चाधितिष्ठन्ति यद्धि तत् ॥
अधिष्ठानं तदुन्मानं जातिभूमिवशाद् द्विधा ।
तैतिलानां चतुर्हस्तं त्रिहस्ता द्विजन्मनाम् ॥ १२ ॥
नृपाणां त्रिकरं सार्धद्विहस्तं यौवराजकम् ।
डिहस्तं वणिजामेकहस्तं शूद्रस्य कीर्त्यते ॥ १३ ॥
एतजातिवशाद् भूमिवशादत्रैव कथ्यते
दण्डात् षण्मात्रहान्या तु द्वादशाद्यात् त्रिभूमिकात् ॥


 १.तद्वदूर्वम', २. ‘र्तितम् ।।' ख. पाठः, 83