पृष्ठम्:मयमतम् TG Sastri 1919.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६९
चतुर्दशोऽध्यायः ।

त्रितलस्योत्तमस्येष्टं पादेनोनं द्विहस्तकम् ।
क्षुद्राणामनया नीत्या विधातव्यं विचक्षणैः ॥ १५ ॥
तत्तत्पादोदयाधैर, इष्टांशोनमानतः ।
अधिष्ठानस्य चोत्सेधं वास्तुवस्तुनि भूवशात् ॥ १६ ॥
८दुपानस्य निष्क्रान्तं तत् त्र्यंशेनं विभाजयेत् ।।
त्यक्त्वैकांशं बहिस्तच जगतीं कारयेद् बुधः ॥ १७ ॥
तहत् कुमुदपट्टे च तद्वत् कण्ठस्य वेशनम् ।
आत्तोत्सेधांशमानं तु भागमानेन वक्ष्यते ॥ १८ ॥
अष्टसप्तशशिबन्धभागकश्चन्द्रबन्धशशिभागकैः क्रमात् ।
वप्रेकं कुमुदकम्पकन्धरं कम्पवाजनमधोध्र्वकम्पकम् ॥

पदबन्धमुदितं तदुच्छ्ये ।
भानुभिर्द्विगुणितांशके कृते ।।
देवविप्रनृपवैश्यशूद्रके-
प्वेवमुक्तमृषिभिः पुरातनैः ॥ २० ॥
चन्द्रदृक्शशिशिवांशकै 'सैर्धातुभिश्च समभागिकै क्रमात् ।
वाजनं प्रतिमुखं त्रियश्रकं टॅक् च वृत्तकुमुदं तु वप्रकम् ॥


 १. ‘क्त' क. पाठः. २. ‘णैः ।। मसूरकोन्नतं पञ्चभ्ते द्वा- त्रिंशदङ्गुलम् । त्रिंशद ङ्गुलमूलं वा द्विद्यङ्गुलविवर्धनात् ।। अष्टत्रिंशतमात्रोच्च त्रयोदशविशालिनः । षडादीनां तु पञ्चानामेकत्रिंशतिमात्रकः ।। नवत्रिंशति- मात्रोचं चतुर्दशकरस्य तु । त्रिचतुर्हस्तयोर्धाम्रोम्तन्नीत्यैव विचक्षणः । आत्त- त्सेधांशमानेन वाधिष्ठानोच्छूयं विदुः ॥ कैश्चित् तेन प्रकारेण विधातव्यं वि- चक्षणैः । त', ३. ‘त्र', ४. 'न भा', ५. 'क्र', ६. ‘धृ' ख. पाठः. 84