पृष्ठम्:मयमतम् TG Sastri 1919.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६७
चतुर्दशोऽध्यायः ।

आत्ताधिष्ठानलुङ्गाद् हिगुणमथ समं सार्धमधै त्रिपादं
पञ्चांशयंशकं वानलसमभजिते व्यकमोत्रोपपीठम् ।
सैप्रत्यङ्गं समं चेत् तदपि च महता वाजनेनोपयुक्तं
सर्वस्निग्धान्धस्ताद् दृढतरमतिना योजिर्तव्यं बलार्थम् ।।

इति मयमते वस्तुशास्त्रे उपपीठविधानो नाम

त्रयोदशोऽध्यायः ।

अथ चतुर्दशोऽध्यायः ।।

तैतिलानां द्विजातीनां वर्णानां गृहकमाण ।
तद्योग्यं द्विविधं वस्तु जाङ्गलानूपभेदतः ॥ १ ॥
घनशर्करया युक्तमत्यन्तं खनने खरम् ।
सितांशुतनुतोयाढ्यं जाङ्गलं भूतलं भवेत् ॥ २ ॥
खननं क्रियमाणस्य वस्तुनश्च बलं यथा ।।
रूढोत्पॅलकृशेर्वादिसंयुक्तं तनुवालुकम् ॥ ३ ॥
अनूपमिति विख्यातं खावैवा जलदर्शनात्।।
इष्टकोपलमृद्भिश्च वालुकैरपि चिऋणैः ॥ ४ ॥
शर्कराभिः क्रमाच्छ्रश्न निश्छिद्रं पूरयेत् स्थिरम् ।
घनीकृत्येभपादैश्च काष्ठखें डैबृहत्तरैः ॥ ५ ॥


 १. 'प', २. “सं' क पाठः. ३. ‘मन्तात् ', ४. *भ्य' ख. पाठः. ५. ‘तं चोदयार्धम्' क. पाठः, ६. 'पलकशेषादि' ख. पाठः. ७. 'ब', ८, ‘नम् ।' क, पाठः, ०.. 'श्चा', १०. ‘तु', ११. ‘च्छि- खैः ।।' ख. पाठः, 82