पृष्ठम्:मयमतम् TG Sastri 1919.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
त्रयोदशोऽध्यायः ।।

द्विगुणं वा प्रकर्तव्यभात्ताधिष्ठानतुङ्गतः ।
उत्सेधे दशभागे तु ऐकेनैकेन वर्धनात् ।। ३ ।।
पञ्चांशान्तमधिष्ठानजन्माद् बाह्य तु निर्गमम् ।
दण्डं वा सार्धदण्डं वा हिंदण्डं वा त्रिदण्डकम् ॥ ४ ॥
अधिष्ठानजगत्या वा समं तत्पादबाह्यकम् ।
वेदिभद्रं प्रतिभद्र सुभद्रं च त्रिधा मतम् ॥ ५ ॥
उच्छुये भानुभागे तु यंशेनोपानमीरितम् ।।
पद्ममं तदूध्र्वेऽर्ध क्षेपणं पञ्चभागिकम् ॥ ६ ॥
श्रमधेन कम्पं स्याद् भागैकेनाम्बुजं भवेत् ।।
शेषांशं वाजनं कम्पमष्टाङ्गमुपपीठकम् ॥ ७ ॥
षडङ्ग वा विधातव्यमूध्वधस्ताद् विनाम्बुजम् ।
वेदिभद्रं द्विधा प्रोक्तं सर्वहर्येषु योग्यकम् ॥ ८ ॥
अश्विनीधुंडिकैकांशैः भानुभागाङ्गकांशकैः ।
त्र्यंशैकांशकभागैस्तु डाभ्यामंशेन योजयेत् ॥ ९ ॥
जन्मतो बाजनान्तं तु तुङ्गे त्रिनवभागके ।
पादुकं पङ्कजं कम्पं कण्ठमुत्तरमम्बुजम् ।। १० ।।
कपोतपाालेकान्तादि प्रतिवाजनमुच्यते ।
प्रतिभद्रमिदं नाम्न्ना सर्वालङ्कारसंयुतम् ॥ ११ ॥


 १. ‘ध’, २. ‘भागनै', ३, ‘दी', ४, ‘नी', ५. 'दी' ख. पाठः. ६. 'शे' क. पाठः, ७, ‘वामध्येन', ८. 'कं', ९. 'दी', १०, न्द्र- नवांशैस्तु भानुभागांशकांशकैः । त्रियंशैकांशभा', ११. 'नो', १२... ‘न्त- स्थतळे', १३. ‘गि' ख, पाठः. 5 80