पृष्ठम्:मयमतम् TG Sastri 1919.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
मयमते

इष्टकादिचिते खाते वदन्ति प्रथमेष्टकाम् ।।
पूर्ववद् वरवेषाढयो युक्त्या तत्र निधापयेत् ॥ १११ ॥

रूपाण्यप्यौषधानि धुतिमणिकनकाद्यष्टलोहानि धातुन् । पात्रे न्यस्याञ्जनादीन् शुभयुतदिनपक्षक्षहोरामुहूर्ते । मृत्कन्दान्यष्टधान्यानि च निाश गतिमान् श्वभ्रमूले निधाय क्षिप्त्वा पात्राथ युक्त्या बलिमथ सलिले स्थापयेद् गर्भमादौ ।

अमरनरविमानद्वारयागाङ्खिमूले
विधिवदविकलाङ्ग गैर्भमादौ निधाये ।
तदुपरि विधिनास्मिन् योगमाद्धं च पूर्वं ।
सकलविभवयुक्तं स्थापयेद् गर्भमूर्ध्नि ॥ ११३ ।।

पञ्चपञ्चकलशोदकपूतौ श्वेतचन्दननवाम्बरयुक्तौ । सर्वमङ्गलविचित्रतरौ तौ स्थापयेत् स्थपतिरङ्घिकयोगौ ॥

इति मयमले वस्तुशास्त्रे गर्भविन्यासो नाम

दशोऽध्यायः ।।

अर्थ त्रयोदशोऽध्यायः ।

अधिष्ठानस्य चाधस्तादुपपीठं प्रयोजयेत् ।
रक्षार्थमुन्नतार्थं च शोभार्थं तत् प्रवक्ष्यते ॥ १ ॥
समं त्रिपादमधे वा पञ्चांशयंशमेव वा ।।
सपार्दै वाथ साधे व पदोनद्विगुणं तु वा ॥ २ ॥


 १. *येवौष' ख. पाठः, २. रत्नमा' क. पाठः. 79