पृष्ठम्:मयमतम् TG Sastri 1919.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६३
द्वादशोऽध्यायः ।

सुमुहूर्ते सुलग्ने च होराकरणसंयुते ।
रात्रौ गर्भमहन्येव स्थापयेचतुरिष्टकम् ॥ १०१ ॥
यद्यत् स्थानं तु गर्भस्य तत्रस्था प्रथमेष्टका ।
मृत्कन्दधान्यसल्लोहधातुरत्नौषधैः सह ॥ १०२ ॥
गन्धद्रव्यैश्च बीजैश्च विधेया प्रथमेष्टका ।
शैले शिलामयी प्रोक्ता चैष्टके चेष्टकाः शुभाः ॥ १०३ ॥
गर्भभाजनविस्तार विस्तार द्विगुणायता ।
विपुलार्धघन सर्वहर्त्यके चतुरिष्टका ॥ १०४ ॥
अष्टौ द्वादश वा ग्राह्या मध्यमे तु महत्तरे ।
ऋजुदीर्घाङ्गुलिन्यासा समसङ्ख्या हि पुंस्त्वभाक् ॥ १०५ ॥
स्त्रीत्वभागोजसंङया सा वक्ररेख नपुंसकम् ।।
सुन्निग्धाः समदग्धाश्च सुस्वनीस्ताः सुशोभनाः ।। १०६ ॥
पुंस्त्रीनपुंसके हम्र्ये योजयेत् ता यथाक्रमम् ।
यथा जाता पुरा तत्र स्थापनीया तथा भवेत् ॥ १०७ ॥
शिला दोषविनिर्मुक्ता बिन्दुरेखादिवजिता ।।
आदावेव तु कर्तव्या झपाले प्रथमेष्टका ॥ १०८ ।।
निखाताङ्घौ विमाने तु न्यस्तव्या गर्भमूर्धनि ।
तत्पूर्वदक्षिणे पूर्वं त्रिकोणेषु प्रदक्षिणम् ॥ १०९ ।।
देवादीनां द्विजातीनां स्थापयेत् स्थपतिः क्रमात् ।
केचिच्छुभ्रस्य गम्भीरे पञ्चयंशावसानके ।। ११० ॥


 १. 'काः ।' क. पाठः. २. 'धान्विता ।।', ३, ‘नातुरिष्टकाः ।। सर्वहर्यके ।।', ४. 'रा' ख, पाठः.