पृष्ठम्:मयमतम् TG Sastri 1919.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०
मयमते

खड़े चायसमेव स्यातुनगाश्चतुर्दिशि ।
हैममायसकं तानं राजतं क्रमशो न्यसेत् ॥ ७५ ॥
मध्ये श्रीरूपकं हैमं स्वस्तिकानि चतुर्दिशि ।
छत्रध्वजपताकाश्च दण्डं वै शासनात्मकम् ॥ ७६ ॥
राजहारे भवेद् गर्भमन्येषां तु यथार्हकम् ।
वाष्र्णेयकानां गर्भ चेद् विजयडारदक्षिणे ॥ ७७ ॥
अयसा हलजिह्वां च श ताम्रकुलीरकम् ।
पञ्चायुधं सीसमाषं (हयौ ? यं) वृषगजौ हरिम् ॥ ७८ ॥
अर्काविरुणेन्दृनां स्थाने सम्यङ् निवेशयेत् ।
चत्वारो धेनुकः श्वेतनिर्मिताश्च चतुर्दिशि ॥ ७९ ॥
गोपुङ्गवं च पुरतो वैश्यानां प्रविधीयते ।
बीजपात्रं हलं हैमं ताम्रजं युगमिष्यते ।। ८० ॥
रजतेन पशु विद्याच्चतुर्दिक्षु विनिक्षिपेत् ।
मध्ये गोपुङ्गवं चैव तन्निरीक्ष्य युगं पुनः ॥ ८१ ॥
हलं दक्षिणभागे तु वामांशे बीजपत्रकम् ।
बीजं हिरण्मयं शूद्रगर्भ वैश्ये च सम्मतम् ॥ ८२ ॥
गृहाणां गृहगर्भ च जातिगर्भ विमिश्रितम् ।
अनेकभूमियुक्तानि यानि वासगृहाणि च ॥ ८३ ॥


 १. *ज + + । खटाइँ नन्दकं शुक्तिः क्षेत्रालस्य हेमजम् । पद्म लक्ष्म्याः सरस्वत्या ओङ्कारं चक्रवर्णकम् ॥ ध्वाङ्के केतूपलं हैमं ज्यष्ठाकाष्ठस्य गर्भके } + + पताका' ख. पाठः, २. रताम्र' क, पाठः. ३. काश्चैव नि', ४, “यी', ५. द्वि', ६. 'स्व ता’, ७. शून् वि' ख. पाठः. ८. निःसृतम्' क. पाठः