पृष्ठम्:मयमतम् TG Sastri 1919.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६१
द्वादशोऽध्यायः ।

पुष्पदन्ते च भल्लाटे महेन्द्रे च गृहक्षते ।
दक्षिणे नेत्रभित्तौ तु सौम्यादौ तु चतुर्गुहे ॥ ८४ ॥
हारि प्रदक्षिण स्तम्भे योगे वापि विधीयते ।
स्थाली तदुपधानं च दार्विकं तण्डुलं खजम् ॥ ८५ ॥
गलक्यं दन्तकाष्ठानं कृष्णं लोहं महानसे ।
दक्षिणे भवने गर्भः कुम्भः शाल्युदपूरितः ॥८६॥
धनसद्मनि गर्भस्तु सार्गलं कुञ्चितं भवेत् ।
पर्य$दीपशयनं गर्भ विद्यात सुखालये ॥ ८७ ॥
येन यत् कर्म निष्पाद्यं तेन तद्गहगर्भकम् ।
यानि यस्य खचिह्नानि तानि तस्य निधापयेत् ॥ ८८ ।।
सभाप्रपामण्डपेषु कर्णपादे प्रदक्षिणे ।
द्वितीयस्तम्भके द्वारदक्षिणाघ्रौ तु वा न्यसेत् ॥ ८९ ॥
अयमयगजो गर्भः कृष्णलोहेन कद्रवः ।
लक्ष्मी सरस्वती हेमां पात्रमध्ये तु विन्यसेत् ॥ ९० ॥
गर्भो नाट्यसभायां चं प्रक्षिपेत् कुटिकामुखे ।
मण्डितस्तम्भमूले वाप्युभयोरपि चेष्यते ॥ ९१ ॥
आतोद्यानि च सर्वाणि सर्वलोहम यानि च ।
श्रीवत्सं पङ्कजं पूर्णकुम्भं हेमजमिष्यते ॥ ९२ ।।


 १. र', २. *मैं तु स्याद् गलं', ३. कं' ख. पाठः. ४. 'म' क. पाठः. ५. 'वि', ६. चेत् प्र' खे. पाठः,