पृष्ठम्:मयमतम् TG Sastri 1919.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५९
द्वादशोऽध्यायः ।

एवं दुर्गा विमाने तु गर्भ कुर्याद् विचक्षणः।।
खट्वाङ्ग नन्दकं शक्ति क्षेत्रपालस्य हेमजम् ॥ ६५ ॥
पझं लक्ष्म्याः सरस्वत्या ओङ्कारं च त्रिवर्णकम् ।।
ध्वाक्क केतूत्पलं हेमं ज्येष्ठाकोष्ठस्य गर्भके ।। ६६ ॥
कपालशूलधण्टाभिः प्रेतान कालीगृहे न्यसेत्।
हंसोक्षशिखिताक्ष्यश्च सिंहभप्रतम्पकान् ।। ६७॥
जाम्बूनदमयान् मातृकोष्ठके निधापयेत् ।
पद्माक्षसूत्रकं दीपं रोहिणीगृहगर्भके ॥ ६८ ॥
दर्पणं चाक्षमालां च पार्वतीभवने विदुः ।।
पद्माक्षसूत्रकं पूर्णकुम्भं मोहिनिधामनि ॥ ६९ ॥
चित्रध्वजपताकाश्च सचिह्नः सह वाहनेः ।
अनुक्तानां च देवानां देवानां गर्भमिप्यते ।। ७० ॥
द्विजातीनां तु वर्णानां जातिगभ विधीयते ।।
करके दण्डेकाष्ठं च चे मयं भवतु ।। ७१।।
यज्ञोपवीतं यज्ञाग्निं यज्ञभाण्डं च राजतम् ।।
यज्ञोपवीतमध्यस्थं यज्ञभाण्डे चें दक्षिणे ।। २।।
वामे तु करकं काष्ठमनले पुरता भवेत् ।
विप्रगर्भमिदं प्रोक्तं स्वस्तिकानि चतुर्दिशि ॥ ७३ ।।
मध्ये हेममयं चक्रं वामे शलं च राजतम् ।
कार्मुकं ताम्रजं वाम दण्डो रुक्मेण दक्षिणे ।। ७४ ।।


 १. ‘णः । कपालगू, २. 'तु विधीयते ।' ख. पाठः. ३. ‘प्यं' क. पाठः, ५, ‘छ', ५. 'त', ६. 'एडानि', ७. “अ' खे. पाठः, 74