पृष्ठम्:मयमतम् TG Sastri 1919.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७
द्वादशोऽध्यायः ।।

ईशगर्भमिदं प्रोक्तमन्येषां तु प्रवक्ष्यते ।।
विष्णुधिष्ण्ये च गर्भ स्याद्धैमं चक्रं तु मध्यमे ।। ४६ ॥
शङ्खंकार्मुकद(1)ण्डं(2) च रुक्ममायसनन्दकम् ।
धनुः शङ्खं च वामे तु खड्ग दण्डं च दक्षिणे ॥ १७ ॥
प्र(3)मुखे वैनतेयं च स्थापयेद्धेमनिर्मितम् ।।
यज्ञोपवीतमोङ्कार स्वस्तिकाग्निं(4) च हेमजम् ॥ १८ ॥
पद्मं(5) कमण्डलुं चाक्षसूत्रदर्भाश्च ताम्रजाः ।
ब्रह्मा(6)सनपदे मध्ये(7)ऽम्बुरुहं स्थाप्यमेव च ॥ ४९ ॥
तस्मा(8)न्मध्ये तदोङ्कार यज्ञसूत्रावृतं तु ये(9)त् ।।
स्वस्तिकानि चतुर्दिक्षु वामे स्थाप्यं कमण्डलु ॥ ५० ॥
कुशाक्षमालां वामे तु पुरे तीक्ष्णानलं क्षिपेत् ।।
ब्रह्मगर्भमिदं प्रोक्तं ब्रह्मस्थाने प्रतिष्ठितम् ॥ ५१ ।।
स्वस्तिकं चाक्षमालां च शक्तिं चक्रं च कुकुटम् ।
मयूरं चैव सौवर्णमयसा शक्तिमध्यमे ॥ ५२ ॥
वामे च कुकुटं दद्याद् दक्षिणे च मयूरकम् ।
अक्षसूत्रं पुरे(11) स्थाप्यं गर्भ षण्मुखसद्मनि ॥ ५३॥
अम्बुजं चाङ्कुशं पाशं सिंहं सवितृधामके ।
वज्रेभं नन्दकं च(12)क्रं चामरं धाम्नि वज्रिणः ।। ५४ ।।


 १. 'म' क, पाठः. २. 'ण्डैश्च रु. ३. प्राङ्मुखे', ४, *ख्यं', ५. 'द्मकं मण्डलं चा', ६. 'हास्थानगते भ', ७. 'ध्य पुरुष स्था', ८. 'स्मि', ९. ‘त' ख, पाठः, १०, 'र:', ११. चित्रं चा' क, पाठः 72