पृष्ठम्:मयमतम् TG Sastri 1919.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
मयमते

आच्छाद्य भोजनं शुभ्रं पिधानेन तु निश्चलम् ।
तमेवाराध्य गन्धायैः लापयेत् कलशोदकैः ॥ ३६॥
विप्रस्वाध्यायघोषैश्च शङ्खभेर्यादिनिःस्वनैः ।
कल्याणजयघोषैश्च स्थपतिः स्थापन तु ॥ ३७॥
पुष्पकुण्डलहारादिकटकैरङ्गलीयकैः ।
पञ्चाङ्गभूषणैमानिर्मितैश्च विभूषणैः ॥ ३८ ॥
हेमयज्ञोपवीतस्तु नववस्त्रोत्तरीयकः ।।
श्वेतानुलेपनश्चैव सितपुष्पशिराः शुचिः ॥ ३९॥
ध्यात्वा धरातलं सर्वे दिहिपेन्द्रसमॅन्वितम् ।।
ससागर सशैलेन्द्रमनन्तस्योपरि स्थितम् ॥ ४० ॥
सृष्टिस्थितिलयाधारं भुवनाधिपतिं जपेत् ।।
ब्रह्मादीनां च देवानां देवानां द्वारदक्षिणे ॥ ११ ॥
स्तम्भमूले यथायोग गर्ने गर्भ निधापयेत् ।
होमस्तम्भे प्रतिम्तम्भे पादुकांचे प्रतेरधः ॥ ४२ ॥
तस्मादयुन्नतं निम्नं गर्भ सम्पहिनाशकृत् ।
चतुरश्रीकृता सारवृक्षपाषाणानिमिता ॥ ४३ ॥
पात्रद्विगुणविस्तारा पञ्चाङ्गलघनान्विता ।
प्रतिमाफलका या सा स्थाप्या तज्ञजनोपार ॥ १४ ॥
तवें स्थापयेत् स्तम्भं संश्लिष्टचतुरिष्टकम् ।
सरत्नौषधिभिर्युक्त वस्त्रपुष्पादिशोभितम् ॥ ४५ ॥


 १. *श्व' क. पाठः. २. परिधाने तु ख. पाठः. ३. ‘स्या क. पाठः. ४. 'काज्ञाया ।। ', ५. '+नु', ६. ‘विप्रेन्द्र', ७. 'मायुतम् ।', ८. 'पन् ।', ९. ‘तु योगे वा ग', १०, “नम् । ११. ‘कु’ ख, पाठः ।