पृष्ठम्:मयमतम् TG Sastri 1919.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५
द्वादशोऽध्यायः ।।

मनःशिला च वितथे भृङ्गराजे तु माक्षिकम् ।
राजावते तु सुग्रीवे शोषे गैरिकमीरितम् ॥ २६ ॥
अञ्जनं गणमुख्ये स्यादितौ दरदं विदुः ।
मध्यमे पद्मरागं तु मरीचौ विद्मं मतम् ॥ २७ ॥
सविन्द्रे पुष्यरागं तु वैडूर्य स्याद् विवस्वति ।
वज्रामिन्द्रजये विद्यादिन्द्रनीलं तु मित्रके ॥ २८ ॥
रुद्रराजे महानीलं मरकतं तु महीधरे।
मुक्तापवत्से मध्यादिपूर्वेण कमशो न्यसेत् ॥ २९ ॥
विष्णुक्रान्ती त्रिशूल श्रीः सह दूर्वा च भृङ्गकम् ।
अपामार्गेकपत्राब्जमशादिष्त्रौषधं न्यसेत् ॥ ३० ॥
चन्दनागरुकपूरलवङ्गैलालताफलम् ।।
तकोलेनाष्टाँन्धस्तु जयन्तादिषु विन्यसेत् ॥ ३१ ॥
स्वस्तिकानि चतुर्दिक्षु हेमायस्ताम्ररूप्यकैः ।
सर्वेषामपि सामान्यमेतच्चिकैस्तु वक्ष्यते ॥ ३२ ॥
कपालशूलखटाङ्गं परशु वृषभं तथा ।
पिनाकं हरिणं पाशं हैमं पूर्वादिषु न्यसेत् ॥ ३३ ॥
कार्तस्वरमयं चाष्टमङ्गलं तंत्र पूर्ववत् ।
दर्पण पूर्णकुम्भं च वृषभं युग्मचामरम् ॥ ३४ ॥
श्रीवत्सं स्वस्तिकं शङ्के दीपं देवाष्टमङ्गलम् ।
स्थापकस्यानुशिष्यस्ता स्थपतिः क्रमशो न्यसेत् ॥ ३५ ॥


 १. ‘ध’, २. 'द' ३. ‘त्रे', ४. 'वक्त', ५. 'ली' ख. पाठः. १. 'भा' क, पाठः, ७, 'ब', ८. 'चा' ख. पाठः. 70