पृष्ठम्:मयमतम् TG Sastri 1919.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
मयमते

वासयित्वा तु पूर्वेयुः पश्चगव्यैस्तु भाजनम् ।
प्रक्षाल्य सूत्रैरावेष्टय शुद्धशाल्यास्तरे शुभे ॥ १६ ॥
स्थण्डिले चण्डितं कृत्वा मण्डूकं वाथ तत्परम् ।।
विन्यस्य देवान् ब्रह्मादीन् श्वेततण्डुलधारया ॥ १७ ॥
आराध्य गन्धपुष्पाचैर्भुवनाधिपतिं जपेत् ।।
स्थपतिः कलशान् न्यस्य सर्वान् वस्त्रविभूषितान् ॥
सुगन्धोदकसम्पूर्णान् गन्धपुष्पसमर्चितान् ।
निष्कलङ्कानसुषिरान् पञ्चपञ्चव सूत्रतान् ॥ १९ ॥
तस्य प्रदक्षिणे गन्धशालिस्थण्डिलैमण्डले ।
आराध्य गन्धपुष्पाद्यैर्बलिं दत्त्वा यथाविधि ॥ २० ॥
भाजनाय ततः पात्रं वयेच्छेतवाससा ।
श्वेतवस्त्रास्तरस्योध्यें न्यसेद् दर्भस्तरे शुचिः ॥ २१ ॥
पीत्वा शुद्धं पयो रात्रावुप प्याधिवसेत् ततः ।।
स्थपतिः शास्त्रवित् प्राज्ञः मूत्रग्राह्यादिसेवितः ॥ २२ ॥
धान्यादीन्यर्थं वस्तून भाजनाभ्यन्तरे न्यसेत् ।
हेमराजतशुल्चैश्च शालिव्रीहिकुलत्थकाँन् ॥ २३ ॥
त्रपुणा कङ्क सीसेन माघो मुद्गोऽयसायसा ।।
कोद्रवं च तिलं भाव्यं वैकृन्तेन प्रयत्नतः ॥ २४ ॥
ईशादिषु न्यसेदेतान्यष्टदिक्षु यथाक्रमम् ।।
जयन्ते जातिहगुल्यं हरितालं भृशे मतम् ॥ २५ ॥


 १. *भाहे भास्करे शु', २. 'का', ३. *णे शा', ४. 'लं', ५. लेऽपि ।', . ‘त्र' ख. पाठः, ७. 'कम् ।।' के. पाठः, ८. 'ते', . “न' ख. पाठः. 69