पृष्ठम्:मयमतम् TG Sastri 1919.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
मयमते

नवपक्तिकरा यावत् पक्षषोडशहस्तकम् ।
चतुष्पश्चतलं प्रोक्तं चतुर्मानं सनातनम् ॥ ६ ॥
एकहस्तं द्विहस्तं वा क्षुद्रुमेकतलं स्मृतम् ।।
युग्मायुग्मकरैर्मानैर्हस्तानसमन्वितैः ॥ ७ ॥
केचिद् वदन्ति देवानां मानुषाणां विमानके ।
विस्तारे सप्तषट्पञ्चचतुस्त्र्यंशेऽधिकं त्रिभिः ॥ ८ ॥
शान्तिकं पौष्टिकं जयदमद्भुतं सार्वकामिकम् ।
उच्छ्रयं द्विगुणं पादार्धाधिकं चापि सम्मतम् ॥
पञ्चदशकरव्यासाडीनं क्षुद्रविमानकम् ।
सप्तेष्टाधिकपत्यादि हिद्दिहस्तविवर्धनात् ॥ १०॥
आसप्ततेश्चतुर्भुम्यादीनि त्रीणि मतानि च ।
सप्तविंशतिभेदानि हादशान्तान्यनुक्रमात् ॥ ११॥
त्रिचतुर्विशतिरत्नेर्यावच्छतकरान्तकम् ।
त्रित्रिहस्तविवृड्या तु त्रिनवात्सेधमिष्यते ॥ १२ ॥
एवमुत्कृष्टमानेर्तुं श्रेष्ठमध्याधनं भवेत् ।।
त्रिचतुष्पक्तिहरतादि द्विहिहस्तविवर्धनात् ॥ १३ ॥
पञ्चषट्षष्टिहस्तान्तं सङ्ख्यया पूर्वसंस्कृतिः।
चतुरतलविमानादि द्वादशान्तं विधीयते ॥ १४ ॥
सप्ताष्टर्पङ्क्रारभ्य त्रित्रिहस्तविवर्धनात् ।।
पञ्चषण्णवतियवदुचे प्रागिव सङ्ख्यया ॥ १५ ॥


 १. “म', २. '६' त. पाठः. ३. 'मुन्नतैः ॥' क. पाठः, १. च्छूयं द्विगुण पादधिदधि' ख. पाठः, ६. “सदशाष्टादशादि' क. पाठः. १. 'तु', ७, ‘वत् ततः ।', ८, “हतरा', ९. 'द्विद्विह' ख. पा. 65