पृष्ठम्:मयमतम् TG Sastri 1919.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१
एकादशोऽध्यायः ।।

(धै ? द)तानृपः स्थपतिकादिचतुष्टयेभ्यो
मानादिकर्मनिपुणेभ्य इडां च गाश्च ।
नित्यं यथा जगति वित्तमनेकवस्तूं-
न्याचन्द्रतारमधिवासभुवं मुदा सः ॥ ९४३ ॥

इति मयमते बस्तुशास्त्रे नगरबिधानो नाम


दशमोऽध्यायः ।


अथैकादशोऽध्यायः ।


भूमिलम्भविधानं तु वक्ष्ये संक्षेपतः क्रमात् ।
चतुरश्रमीयताश्रं वर्तुलं चैं तदायतम् ॥ १ ॥
अष्टाग्रं च घडथं च यश्रवृत्तं तथैव च ।
एतद् विन्यासभेदं स्यात् क्षयवृद्धिविधानतः ॥ २ ॥
भूमिलम्भमिति प्रोक्तं त्रिचतुर्हस्तमानतः ।।
हिडिहस्तविवृद्ध्यैकं भूमेनं चतुष्टयम् ॥ ३ ॥
पञ्चषङ्कस्तमारभ्य हिडिहस्तविवर्धनात् ।
हितले तु चतुर्मानं रुद्रभानुकरान्तकम् ॥ ४ ॥
सप्ताष्टहस्तमारभ्य डिष्टिहस्तविवर्धनात् ।
पञ्चदशविकारान्तं त्रितले पञ्चमानकम् ॥ ५ ॥


 १. “य' ख. पाठः. २. ‘स्त्रमाच' क. पाठ ३. *पि', ४. “तु' ख. पादः, ५. “दाश्रयम्' क. पाठः, ३. “कम् ॥' ख. पाठः. 64