पृष्ठम्:मयमतम् TG Sastri 1919.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
मयमते

प्राचीना दश मार्गाश्चोत्तरमार्गास्तथैव स्युः ।
नृपमन्दिरसंयुक्तं युक्त्यानेकार्गलोपेतम् ।। ६९ ॥
बहुकुट्टिमसंयुक्तं विजयं नाम्न्ना वरैः प्रोक्तम् ।।
प्राचीनास्त्वेकादश माग रुद्रा उदीचीनाः ।। ७० ।।
ब्रह्मांशादपरांश यदभीष्टं तत्र नृपवासम् ।
तन्मुखतोऽदभ्रमहाङ्गणकं स्यादिष्टभागे तु ॥ ७१ ॥
तत्रान्तः पुरवास शेपं सर्वे समुन्नेयम् ।।
तत्प्रागेंद्रतमार्गा सा कथिता राजवीथीति ।। ७२ ॥
तस्या द्विपार्श्वयोः स्यात् सैश्वर्याणां तु मालिकापङ्किः ।
तपार्श्वयोर्निवासा वणिज स्यात् तस्य दक्षिणतः ॥ ७३ ॥
स्यात् तन्नुवयवासं द्युत्तरतश्चक्रिणां वासम्।।
तत्तजाल्यन्तरगृहम तत्सामीप्यतः कुर्यात् ॥ ७४ ॥
शेष प्रागिव सर्व योग्यं तत् सर्वतोभद्रम् ।।
एवं षोडश भेद हादिताश्चाचेमुनीन्द्रस्तु ॥ ७५ ॥
मार्गच्छेदं नेष्टं पदमध्ये चत्वरं न स्यात् ।
शेपं युयानुतं सम्यग् योज्यं नृपेच्छया तज्ज्ञैः ।।
क्षुद्राणामपि चैप मध्यानां चापि सर्वेषाम् ।
तत्र कुटुम्बावलिकं वक्ष्येऽहं चान्तरापणकम् ॥ ७७ ।।
परितो रथपथयुक्तं मध्ये वणिज गृहश्रेणी ।
तद्दक्षिणतः पार्थे गेहं स्यात् तन्तुवायानाम् ॥ ७८ ॥


 १. “शे', २. गितमार्ग सा राजवीथिका कथितः ।।', ३.ण मा' ख. पाठः, ४. “थ सामी', ५. दान्युदितान्याचै' क. पाठः. 61