पृष्ठम्:मयमतम् TG Sastri 1919.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५
दशमोऽध्यायः ।

एकैकान्तरितास्ते कुट्टिममार्गास्त्वनेकाश्च ।
वेदीभद्रकमुदितं नगरादीनामिदं शस्तम् ॥ ५९ ॥
स्वस्तिकमुदितं ग्रामे यथा तथा स्वस्तिकं विद्यात्।
प्रागुत्तरमुखमार्गाः षट्षडभीष्टास्तु तद्बाह्ये ॥ १० ॥
प्रागन मार्गोपेतं वीथिपदं स्वस्तिकं चैवै ।
प्राचीनोदीचीनश्चित्वारश्चैव मार्गाः स्युः ।। ६१ ॥
ब्रह्मावृतपथमेकं कुट्टिममार्गास्त्रयः प्राच्याम्।
एतद् भद्रकमुदितं नाम्ना नगरादिविन्यासम् ।। ६२ ।।
प्रामुखमार्गाः पञ्चैवोत्तरमार्गस्तिथैव स्युः ।
बहुकुट्टिमसंयुक्तं भद्रमुखं नाम वस्तु स्यात् ।। ६३ ॥
प्राचीनस्तु घडेवैवोत्तरवारतथा मार्गाः ।।
यद् बहुकुट्टिमयुक्तं तद्दस्तुं च भद्रकल्याणम् ।। ६४ ।।
पूर्वापरमरबमार्गाः सप्तैवाङ्मुखाश्च तथा।।
शेष प्रागिव सर्व विन्यासं तन्महाभद्रम् ।। ६५ ।।
अष्टौ पूर्वमुखास्ते मागश्चिाष्टावुदग्वक्राः ।
द्वादशमार्गोपेतं बह्वर्गलकुट्टिमैर्युक्तम् ॥ ६६ ॥
यत् तद् वस्तुसुभद्रं नाम्ना विन्यासमुद्दिष्टम् ।।
नवनवमार्गाश्चैते प्राचीनाश्चाप्युदीचीनाः ।। ६७ ॥
द्वारोपहारयुतं कुट्टिममार्गार्गलैर्युक्तम् ।
राजगृहोपतं यन्नगर नाम्ना जयाङ्गं स्यात् ॥ ६८ ॥


 १. ‘तत् ।', २. “स्तु भ', ३. “दक् तथावक्राः । श’ ख. पाठः. 60