पृष्ठम्:मयमतम् TG Sastri 1919.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१
दशमोऽध्यायः ।

परितः परिखा बाह्य शिबिरयुतानेकमुखरक्षा ।
पूर्वीयां दक्षिणतश्चाभिमुखी राजबलयुक्ता ॥ २२ ॥
उन्नतगोपुरयुक्ता नानाविधमालिकोपेता।
सर्वसुरालयसहिता नानागाणिकान्विता बहूद्याना ॥
हस्त्यश्वरथपदातिबहुमुख्या सर्वजनयुक्ता ।।
डारोपद्वारयुताभ्यन्तरतोऽनेकजनासा ॥ २४ ॥
या नृपवेश्मैसमेत सो कथिता राजधानीति ।।
काननवनदेश वा सर्वजनावाससङ्कीर्णम् ॥ २५ ॥
क्रयविक्रयकैर्युक्तं पुरमुदितं यत् तदेव नगरमिति ।
शूद्वैधिष्ठितं यन्नद्यचलावेष्टितं तु तत् खेटम् ॥ २६ ॥
परितः पर्वतयुक्तं खर्वटकं सर्वजनसहितम् ।
खर्वटखेटकमध्ये यज्जनतांढ्यं जनस्थानकुञ्जम् ॥ २७ ॥
हीपान्तरागतवस्तुभिरभियुक्तं सर्वजनसहितम् ।
क्रयविक्रयकैर्युक्तं रत्नधनक्षौर्मगन्धवरत्वाट्यम् ॥ २८ ॥
सागरवेलाभ्याशे तदनुगतायामि पत्तनं प्रोक्तम् ।
परनृपदेशसमीपे युडारम्भक्रियोपेतम् ॥ २९ ॥
सेनासेनापतियुतमिदमुदितं शिबिरमिति च वैरैः।
सर्वजनैः सङ्कीर्ण नृपभवनयुतं तदेव तथा ॥ ३० ॥
बहुरक्षोपेतं यत् सेनामुखमुच्यते तज्ज्ञैः ।।
नद्यद्रिपार्श्वयुक्तं नृपभवनयुतं सबहुरक्षम् ॥ ३१॥


 १. ‘राभ्य', २. ‘ला', ३. श्य', ४, ‘राजधानिका कथिता ।', ५. वसं तु तत् कु' , ६. “मवत्राढ्यम् ।', ७. 'प' ख. पाठः. 56