पृष्ठम्:मयमतम् TG Sastri 1919.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७
नवमोऽध्यायः ।

ब्रह्मस्थानाद् बहिष्ठानि पूर्वादौ स्थापयेत् क्रमात् ।
स्वर्णेन शालिं रूप्येण व्रीहिं चायसकोद्रवम् ॥ ११८ ॥
त्रपुकैङ्क सीसमाष तिलं वैकृन्तकल्पितम् ।
मुद्रं चायोमयं ताम्न कुलत्थमिति लोहजान् ॥ ११९ ॥
भाजनाय बलिं दत्वा पश्चात् सर्वे निधापयेत् ।।
अङ्गुलाधिकविस्तीर्णमायामं द्वादशाङ्गुलम् ॥ १२०॥
पञ्चाङ्गलेन वृद्धिः स्यादा द्वात्रिंशत्प्रमाण तः ।।
खादिर चेन्द्रकीले स्यात् तस्याग्रं चित्रवृत्तकम् ॥ १२१ ।।
भाजनपरि तत् स्थाप्यं गर्भन्यासविचक्षणैः ।
स्थानीये द्रोणमुखे रखवटे प्रतिनागरे ।। १२२ ॥
ग्रामे च निगमे खेटे पत्तने कोत्मकोलके ।
ब्रह्मण्यार्याकंभागेऽपि विवखति यमे तथा ॥ १२३ ॥
मित्रे च वरुणे चैव सोमे च पृथिवीधरे ।
द्वारदक्षिणदेशे वा ह्येतेषां गर्भ इष्यते ॥ १२४ ॥
पुष्पदन्ते च भल्लाटे महेन्द्रे च गृहक्षते ।
विष्णुस्थाने श्रियः स्थाने स्कन्दस्थानेऽथवा पुनः॥ १२५॥
स्थापयेद् ग्रामरक्षार्थ सर्वकामाभिवृद्धये।
गर्भमादौ विनिक्षिप्य बिम्बं तदुपरि न्यसे ।। १२६॥
शिलेष्टकचिते खाते पुरुषाञ्जलिमात्रके ।।
अनुक्तानां च सर्वेषामजभागादिषु न्यसेनँ। १२७ ॥


 १. 'स', २. 'च', ३. "खवटे', ४. ‘तु', ५. ‘त् ।। अनु', ६. ‘त् ।। शिलेष्टकाचिन्तखान्तपुरुषाञ्जलिमात्रके । सुर' स. पाठः. 52