पृष्ठम्:मयमतम् TG Sastri 1919.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५
नवमोऽध्यायः ।

प्रागुत्तरदिशि दण्डैः पञ्चशतैः स्याच्छवावासम् ।।
शेषाणामपि ततद्दरे देशे श्मशानं स्यात् ॥९८॥<poem>चण्डालचंर्मकारश्मशानतोयाशयापयानं च ।
देवगृहविश्वकोग्रामावृतदेशमार्गपरिवृत्तिः ॥१९॥
व्यसनं ग्रामविनाशो नृपभङ्गो भवति मरणं च।।
देवालयान्तरापणशून्यत्वं शोध्यसञ्चयं चापि ॥१००॥
मार्गेऽशुक्षेपणमीदृग् ग्रामस्य शून्यतादायि ॥१००३॥
ग्रामादीनां च सर्वेषां गर्भविन्यासमुच्यते ॥१०१॥
सगर्भ सर्वसम्पत्यै विगर्भ सर्वनाशनम् ।।
तस्मात् सर्वप्रयत्नेन गर्भ सम्यग् विनिक्षिपेत् ॥१०२॥मृत्कन्दधान्यसल्लोहधातुरत्नेन्द्रनीलकैः ।।
पणेन गर्भद्रव्याणि निर्दोषाण्येव सैगृहेतु ॥१०३॥
सालिलापूरिते श्वझे मृदादीनि न्यसेद् बुधः ।।
धान्योपरि निधातव्यं ताम्रभाजनमभ्रमम् ॥१०४॥
ताम्रभाजनविस्तारं पञ्चधा परिकीर्तितम् ।
रनिडादशपत्यष्टचतुरङ्गुलमानतैः ॥ १०५ ॥
उन्नतं तावदेवं स्याद् वृत्तं स्यचतुरश्रकम्।।
सपञ्चपञ्चकोष्ठं वा नवकोष्ठकमेव वा ॥१०६॥
उपपीठपदे देवास्तस्मिन् पात्रे तु सम्मताः ।
रजतेन वृषः सूर्ये वज्री हाटकनिर्मितः ॥१०७ ॥


 १. ‘च्छि' ख. पाठः, २. 'क' क. पा.. ३. गृह्यताम् ।।', ४. ‘तम् ।।', ५. “वा चतु', ६. 'य' ख, पाठः. 50